________________
२६८
संगीतरनाकरः ततः समग्रहे शम्याद्वयं तालद्वयं तथा। ततोऽतीतग्रहे शम्यातालौ द्वादश ताः कलाः ॥ १८९ ॥ यथाक्षरस्योत्तरस्य पट्चतस्रस्तु युग्मजाः। कला द्वाविंशतावेवम् ,
अथाष्टाविंशतौ विधिः ॥ १९० ।। द्वादशात्र कलाः प्राग्वद् द्विकलोत्तरवत्ततः ।
ततः समग्रह इत्यादि । ततः; सप्तम्यादिषु चतसृषु कलासु शम्याद्वयं च योजयेत् । समग्रह इति ; समकाल इत्यर्थः । ततोऽतीतग्रह इत्यादि । तत एकादशीद्वादश्योः कलयोः शम्यातालौ योजयेत् । अतीतग्रह इति; गीतादेः पूर्वमेव तालस्य किंचित्प्रवृत्तावित्यर्थः । एवं द्वादश कलाः प्रयुज्य, अनन्तरम् ; यथाक्षरस्योत्तरस्य पडिति ; त्रयोदश्यादिषु अवशिष्टासु दशसु कलासु मध्य आद्यासु षट्सु संताशताशता योज्या इस्यर्थः । चतस्रस्तु युग्मजा इति । एकोनविंशाद्यासु चतसृषु संशताशाः प्रयोज्या इत्यर्थः । एवं कला द्वाविंशतौ पातकलाविधिः कर्तव्यः ॥ १८७-१९० ॥
(सु०) एतस्यां ध्रुवायां मुनेर्भरतस्य मतात् पातकलाविधिं ब्रूम: । द्वाविंशतिमिति । केचिदाचार्याः एतस्यां ध्रुवायां द्वाविंशतिं कला: प्राहुः । केचिदष्टाविंशतिं कलाः ; अन्ये द्वात्रिंशतिरिति । शम्यात्रयमिति । अनागते आहे ; त्रय: शम्याः, त्रयस्तालाः, समग्रहे ; द्वे शम्ये, द्वौ तालौ । ततः अनन्तरम् , अतीतग्रहे शम्याः, तालाश्च द्वादश | ताश्च कलाः ; यथाक्षरस्य ; षपितापुत्रकस्य । षड्युग्मजः, चच्चत्पुटात् जाताश्चतस्रः ॥ १८७-१९० ॥
(क०) अष्टाविंशतिकलापक्षे पातकलाविधिं दर्शयितुमाहअथाष्टाविंशतावित्यादि । द्वादशात्र कलाः प्राग्वदिति । प्राग्वदत्र
Scanned by Gitarth Ganga Research Institute