________________
पश्चमस्तालाध्यायः
युग्मे द्विकलयुग्मेन स्थितं स्थायिगतं मतम् ।
तेनैव तत्प्रवृत्तं स्यादुद्धट्टस्तत्कलात्रये ॥ १२० ।। इत्याह । त्र्यश्रोऽयुग्मः । स्थितमित्यादि । तेषां युग्मादीनां पृथक् प्रत्येक स्थितं प्रवृत्तं महाजनिकमिति त्रीण्यङ्गानि ॥ ११३-११९ ।।
(सु०) पक्षान्तरमाह-यद्वेति । अथवा मात्रानन्तरं प्रयोज्यमानात् कलाप्रयोगशून्यं कलाचतुष्टयानन्तरं वैहायसं गेयम् । इदं तु कलाचतुष्टयानन्तरं विहितं वैहायसं एककलत्रितयात्स्यात् । एककले द्विकले चतुष्कले चेति उल्लोप्यके कर्तव्य इत्यर्थ. । एकाङ्गादिति । आदौ वैहायसम् , एकमङ्गमादौ यस्य तत् । तथा षडङ्गान्यन्ते यस्य । अथवा द्वादशाङ्गान्तं वा कर्तव्यम् । किमङ्गमादौ कानि चान्त इत्यपेक्षायामाह-विविध इति । अस्य वैहायसस्य पूर्वं च लक्षितो विविध आद्यमङ्गम् । एककानि परम् अन्त्यमङ्गम् । तस्य वैहायसस्य लक्षणमाह- तदिति । द्वादशकलानिबद्धं तद्वैहायसम् उल्लोप्यकं समापयति । अङ्गसहितस्य वैहायसस्य संज्ञान्तराण्याह-वर्णानुकर्षणमिति । इयं वैहायसरूपा मात्रा अङ्गनिवेशने सति पुनरुच्चारणं वर्णानुकर्षणमित्युच्यते, तालावृत्तिश्च कर्तव्यः । शाखेति । शाखावदेव प्रतिशाखा । किंतु सा अन्यैः पदैर्वा आम्नायते। अतश्च सापि वैहायसानन्तरं गेयेत्यर्थः । अत्रेति । अत्र ; उल्लोप्यके। यताक्षरे षपितापुत्रके अन्ताहरणं कर्तव्यमित्युक्तम् । तदेव संहरणमित्युक्तं भवति । अनेन गीतस्य समाप्तिर्भवति । वृत्तसंहरणनामानि तु अन्ताहरणे यदा उपनिबद्धमेककमङ्गं स्यात् । विविधो वा भवेदिति संबन्धः । त्रिधेति । अथ ; अन्ताहरणानन्तरं त्रिविधोऽन्तः कर्तव्यः । युक् अयुक् मिश्र इति । तेषामन्तानां मध्ये अन्तः त्र्यश्रयुक प्रथम इति दत्तिल आह । स्थिमिति । तेषां त्रयाणामन्तानां प्रत्येकं त्रीण्यङ्गानि स्युः ; स्थितं प्रवृत्तं महाजनिकमिति ॥ ११३-११९ ॥
(क०) स्थितादीनां लक्षणमाह-युग्म इत्यादि । युग्मे, अन्ते द्विकलयुग्मेन द्विकलचच्चत्पुटेन । स्थायिगतं; स्थायिवर्णगतम् , स्थायिस्वरगतम् । तेनैवेति । द्विकलचञ्चत्पुटेनैव; तत्प्रवृत्तं युग्मप्रवृत्तं स्यात् ।
Scanned by Gitarth Ganga Research Institute