________________
द्वितीयो रागविवेकाध्यायः
रागालापः
ग्रहांशमन्द्रताराणां न्यासापन्यासयोस्तथा ॥ २३ ॥ अल्पत्वस्य बहुत्वस्य षाडवौडवयोरपि । अभिव्यक्तिर्यत्र दृष्टा स रागालाप उच्यते ॥ २४ ॥
रूपकम्
रूपकं तद्वदेव स्यात्पृथग्भूतविदारिकम्' ।
आक्षिप्तिका चच्चत्पुटादितालेन मार्गत्रयविभूषिता ॥ २५ ॥
(क०) सकलरागसाधारणानालापादीन् लक्षयति--ग्रहांशेत्यादिना । यत्र ; यस्मिन्स्वरसंनिवेशविशेषे; ग्रहांशादीनामुक्तलक्षणानां स्वराणामल्पत्वादीनां स्वरधर्माणां च । अत्रैतेषामेवेत्यवधारणं कर्तव्यम् ; तेनास्य धात्वङ्गबद्धेभ्यः प्रबन्धेभ्यो वैलक्षण्यं विवक्षितं भवति । तेषां ग्रहांशादीनामेवाभिव्यक्तिः स्वरूपप्रकाशनम् ; आविर्भाव इत्यर्थः ; न तु स्वरूपप्रकटीकरणमात्रम् । अनेन वक्ष्यमाणलक्षणाया आलप्तेरस्य भेदो दर्शितः । साभिव्यक्तिर्दृष्टा ज्ञाता भवति ; तज्ज्ञैरिति शेषः । स स्वरसंनिवेशविशेषो रागालाप इत्युच्यते । रूपकं तदिति । रूपकमित्यालापभेदेन प्रबन्धपर्यायः । रूपकं तद्वदेवालापवदेव स्यात् । विशेषस्तु-पृथग्भूतविदारिकमिति । पृथग्भूता विच्छिद्य विच्छिद्य प्रयुक्ता विदार्यो गीतखण्डानि यस्मिन्निति तथोक्तम् । अयमर्थः-अपन्यासेप्वविरम्यैकाकारेण प्रवृत्त आलापः; स एवापन्यासेषु विरम्य विरम्य प्रवृत्तं रूपकमिति । आक्षिप्तिकेति निबद्धगीतिभेदः । सा च चञ्चत्पुटादितालेन । आदिशब्देन चाचपुटादयो मार्गताला गृह्यन्ते; तेप्वन्यतमेन । मार्गत्रयवि
1 विवादिकम् .
Scanned by Gitarth Ganga Research Institute