________________
३३२
संगीतरत्नाकरः
मङ्गलप्रबन्धः कैशिक्यां बोहरागे वा मङ्गलं मङ्गलैः पदैः ॥ ३०३ ॥ विलम्बितलये गेयं मङ्गलच्छन्दसाथवा।
इति मङ्गलप्रबन्धः।
ध्रुवः । आभोगः पृथक् कर्तव्यः । तेनायं त्रिधातुः । तालाद्यनियमादनिर्युक्तः । पदतालबद्धत्वात् व्यङ्गः । तारावलीजातिमान् ॥ २९८-३०३ ॥
(सं०) धवलं लक्षयति-त्रिविध इति । धवलस्त्रिविधः । चतुर्भिश्चरणैरुपनिबद्धः कीर्तिः, षड्भिश्चरणैर्विजयः, अष्टभिश्चरणैर्विक्रम इति । एतेषु मात्रानियममाह-विषम इति । विषमे प्रथमे तृतीये च चरणे छगणद्वयम् | समे द्वितीये चतुर्थे च चरणे तगणो दगणो वाधिकः । तदा कीर्तिधवलः । प्रथमचतुर्थयोः षष्ठे द्वितीये च चरणे द्वौ दगणौ स्त: । शेषौ तृतीयपञ्चमौ छगणेन पगणेन वाधिकौ । तदा विजयधवलः। प्रथमे चगणत्रयम् ; दो दगणः । तृतीये दगणत्रयम् । चतुर्थद्वितीययोश्चैतदेव । पञ्चमे चगणत्रयं दगणश्च । सप्तमे दगणत्रयम् । षष्ठाष्टमयोर्दगणाश्चत्वारः । तदा विक्रमधवल इति । स च धवलो धवलादिपदैराशीर्वाद यः । यदृच्छया वेति ; यदृच्छया वा लोकप्रसिद्धितो वा गेयः ॥ २९८-३०३ ॥
(क०) अथ मङ्गलं लक्षयति—कैशिक्यामित्यादि । मङ्गलैः पदैरिति । शङ्खचक्राब्जकोककैरवादिशंसिभिरित्यर्थः। मङ्गलच्छन्दसेति । " पञ्च चकारगणाः प्रतिपादगताश्चेन्मङ्गलमाहुरिदं सुधियः खलु वृत्तम् " इति तस्य लक्षणमुदाहरणं च । अत्रोद्ग्राहादिकल्पनादिकं पूर्ववत् ॥३०३,३०४॥
(सं०) मङ्गलं लक्षयति—कैशिक्यामिति । कैशिकीरागे बोट्टरागे वा कल्याणवाचकैः पदैविलम्बितेन लयेन मङ्गलो गेयः । अथवा मङ्गलनाम्ना छन्दसा ॥ ३०३, ३०४ ॥
Scanned by Gitarth Ganga Research Institute