________________
चतुर्थः प्रबन्धाध्यायः विषमे तु छयुग्मं स्यात् तो वा दो वाधिकः समे ।।२९९।। तदा स्यात् कीर्तिधवलो विजये त्वाद्यतुर्ययोः। दौ द्वौ षष्ठे द्वितीये च शेषौ द्वा छेन पेन वा ॥ ३०० ॥ प्रथमे चास्त्रयो दः स्यात तृतीये दास्त्रयस्तु च । तुर्यद्वितीययोश्चैतत् पञ्चमे सप्तमे तथा ।। ३०१ ॥ षष्ठेऽष्टमे दाश्चत्वारो यस्यासौ विक्रमो मतः। आशीभिर्धवलो गेयो धवलादिपदान्वितः ।। ३०२॥ यहच्छया वा धवलो गेयो लोकप्रसिद्धितः ।
इति धवलप्रबन्धः। धवल इति क्रमो द्रष्टव्यः । विपम इति । विपमे पादे छयुग्मं छगणयोः षण्मात्रिक्योर्युग्मं स्यादिति । विषमपादे द्वादश मात्राः कर्तव्या इत्यर्थः । समे समपादे । तो वा दो वाधिक इति । छयुग्मात् परं तगणस्त्रिमात्रिकः, दगणो द्विमात्रिको वाधिको भवति । समपादे पञ्चदश वा चतुर्दश वा मात्राः कर्तव्या इत्यर्थः । विजये स्विति । षट्पादयुक्ते विजयधवले त्वाद्यतुर्ययोः पादयोः, तथा षष्ठे द्वितीये च पादे दो द्वौ दगणौ । कीर्तिधवलपादापेक्षयाधिको भवत इत्यर्थः । शेषौ तृतीयपञ्चमौ द्वौ पादौ छेन छगणेन पेन पगणेन वाधिको भवतः । विक्रमधवलस्य लक्षणमाह-प्रथम इति । प्रथमे पादे चाश्चगणास्त्रयः । दो दगणोऽपि स्यात् । तृतीयपादे दास्त्रयः । तुर्यद्वितीययोश्चैतदिति । चतुर्थे चास्त्रयो दश्च ; द्वितीये दास्त्रयस्तु चेत्यर्थः । पञ्चमे सप्तमे तथेति । पञ्चमे तुर्योक्तं सप्तमे द्वितीयोक्तं च द्रष्टव्यम् । षष्ठेऽष्टमे दाश्चत्वारो भवन्ति । आशीभिराशीर्वादैः । धवलादिपदान्वित इति । आदिशब्देन विमलादीनि गृह्यन्ते । यदृच्छयेति ; उक्तगणादिनियमराहित्येन । लोकप्रसिद्धित इति । वर्तमानलक्ष्यानुसारेणेत्यर्थः । त्रिप्वपि धवलभेदेषु पूर्वार्धमुग्राहः । उत्तरार्ध
Scanned by Gitarth Ganga Research Institute