________________
चतुर्थः प्रबन्धाध्यायः
२२९ मध्येत्यादिना । मध्याभवाः; मध्या नामाक्षरत्रयात्मैकपादश्छन्दोविशेषः, तस्यां भवाः । अष्टौ भेदा इति । पूर्ववत् प्रस्तारे कृते सति त्रिगुदियो मयरसतजभना अष्टौ वर्णगणा भवन्ति । तत्र लघुपूर्वेषु यसजनेषु एवमित्यतिदेशेनैकैकलध्वधिकेषु कृतेप्वेत एवाष्टौ भेदाः कामगणाः; ते प्रत्येकं कामगणाख्या मात्रागणा स्मृताः । प्रतिष्ठायास्त्विति । प्रतिष्ठा नामाक्षरचतुष्टयात्मैकपादश्छन्दोविशेषः ; तस्याः । पोडश भेदा इति । पूर्ववत् प्रस्तारे कृते चतुर्गुर्वादयश्चतुर्लध्वन्ताः षोडश भेदा भवन्ति । तद्वदित्यतिदेशेनात्रापि द्वितीयादयः समसंख्याका अष्टौ लघुपूर्वा भेदा एकैकलध्वधिकाः कृताश्चेत्, पोडशापि प्रत्येकं बाणगणाख्या मात्रागणा भवन्ति ॥ ६३-६५ ॥
(सं०) वर्णगणानुक्त्वा मात्रागणानाह-मात्रा कलेति । मात्रा, कला, लघुलं इत्यादिशब्दांत्रोच्यते । तस्या गणाः-छगणः, पगणः, चगणः, तगणः, दगण इति । एतान् लक्षयति-स्युरिति । षण्मात्रः (5ss) छगणः । पञ्चमात्र: (ऽऽ।) पगणः । चतुर्मात्र: (55) चगणः । त्रिमात्र: (51) तगणः । द्विमात्रः (5) दगण इति । एतेषां च मात्रागणानां संज्ञान्तरमाह-अत्युक्ताया इति । अत्युक्ता द्विगुरुश्छन्दोजातिः । तस्याः प्रस्तारे ये चत्वारो भेदास्ते रतिगणा इत्युच्यन्ते । तेषु ये लघुपूर्वास्तेश्वादावधिको लघुर्दातव्यः । ते च भेदा यथा55; 15; 51; ॥; इति । त्रिवर्णच्छन्दोजातिमध्या । तस्याः प्रस्तारे अष्टौ भेदाः। ते कामगणा इत्युच्यन्ते । ते च भेदा यथा-555; | 55; 515 ।।5; 551; I51; 5।।; ।।।; इति । चतुर्वर्णजाति: प्रतिष्ठा ; तस्याः प्रस्तारे षोडश भेदाः । ते बाणगणा इत्युच्यन्ते । तद्वत् लघुपूर्वेषु लघुसंयुक्ताः कार्याः । ते च भेदा यथा-5555; 15553 5/55; ||55; 5515; ।5।5; 5115 |15; 5551; 1551; 5/5।।।।5।; 55।।%; ।5।।; 5|||; |||| ; इति ॥ ६३-६५ ॥
Scanned by Gitarth Ganga Research Institute