________________
तृतीयः प्रकीर्णकाध्यायः
१७१ __स्थायभेदाः रागस्यावयवः स्थायो वागो गमक उच्यते ॥ ९७ ।। तत्रोक्तं लक्ष्म वागानां स्थायानां तूच्यतेऽधुना।
वागानामपि केषांचित् प्रसङ्गाद्वच्मि लक्षणम् ॥ ९८॥ लक्षणानुवृत्तौ च विशेषलक्षणं प्रवर्तते” इति न्यायात् । द्रुतस्य तृतीयभागसंमितो यदि वेगः स्वरकम्पे भवति, तदा स्फुरिताख्यो गमकः । द्रुतस्यार्धमानेन वेगेन कम्पश्चेत् कम्पिताख्यो गमकः । द्रुतमानेन स्वराणां कम्पश्चेत् तदा लीनाख्यो गमकः । कश्चित् लघुमानेन लयेन गीयते द्रुतेन मध्यमेन विलम्बितेन वा, तत्प्रमाणके स्वरस्य कम्पे आन्दोलिताख्यो गमकः । कचित् लघुमानत इति पाठः । अनेकविधवक्रत्वयुक्तवेगवतां स्वराणां कम्पो वलिरित्युच्यते । स्थानत्रयेऽप्यविश्रान्ता: प्रसृताः घनाः निबिडाः स्वरा यस्मिन् स त्रिभिन्नः । प्रन्थिसंयुक्तः कण्ठे समुत्पन्नः कोमलो वलिरेव कुरुल इत्युच्यते । अग्रिमं पुरतः स्थितं स्वरमाहत्य शीघ्रं सकृत् स्पृष्ट्वा निवृत्त आहत इत्युच्यते । यस्तूत्तरोत्तरं कमात् स्वरानारोहति स उल्लासित इत्युच्यते । प्लुतमानेन कम्पित: प्लावित इत्युच्यते। हृदयंगमो मनोहरः हुंकारो हुमिति वर्णों गर्भेऽन्तर्यस्य स हुंफितः । मुखं मुद्रयित्वा यः कृतः स्वरस्य कम्प: स मुद्रितः । स्वराणां नामनं मन्द्रस्थान उच्चारणमवरोहणं वा; तयुक्तो नामित इत्युच्यते । एतेषां लक्षणसंमिश्रणामिश्रः । तस्य बहवो भेदाः स्थायप्रकरणे निरूपयिष्यन्ते ॥ ८७-९७ ॥
(क०) गमकाश्रयत्वेन तदनन्तरमुद्दिष्टानां स्थायानां सामान्यलक्षणमाह-रागस्यावयव इति । अवयव एकदेशः । सोऽप्यत्र न्यासापन्याससन्यासविन्यासेप्वन्यतमस्वरविश्रान्तत्वेन प्रयुक्तोंऽशादिकतिपयस्वरसंदर्भो वेदितव्यः । वागो गमक उच्यत इति । गमक एव देशभाषया वाग इत्युच्यत इत्यर्थः । वागानामपीति । केषांचित् वागानां मिश्रभेदानां लक्षणमपि प्रसङ्गात स्थायलक्षणानन्तरं तन्मिश्रभेदप्रस्तावादित्यर्थः । अथ स्थायभेदानुद्दिशति
Scanned by Gitarth Ganga Research Institute