________________
संगीतरत्नाकरः
मुखमुद्रणसंभूतो मुद्रितो गमको मतः ॥ ९५ ॥ स्वराणां नमनादुक्तो नामितो ध्वनिवेदिभिः । एतेषां मिश्रणान्मिश्रस्तस्य स्युर्भूरयो भिदाः ।। ९६ ।। तेषां तु स्थायवागेषु विवृतिः संविधास्यते । इति गमकभेदाः ।
१७०
व्याख्यातानि । एतेषां मिश्रणान्मिश्र इति । एतेषां तिरिपादीनां मध्ये द्वित्रिचतुःप्रभृतीनां यथायोगं मिश्रणमत्र विवक्षितम् । न तु सर्वेषामेव मिश्रणं विवक्षितम् | अन्यथा तस्य स्युर्भूरयो भिदाः इत्युत्तरं वचनमनुपपन्नं स्यात्, सर्वमिश्रणात्मकस्य तस्यैकत्वात् । ननु सर्वमिश्रणेऽपि संनिवेशविशेषबाहुल्यादनेकत्वमुपपद्यत इति चेत्-न; वक्ष्यमाणेपु स्थायेप्वेकानेकस्वराश्रयत्वाभ्यां यथायोगं द्वित्र्यादीनामेव मिश्रप्रयोगदर्शनात् । एतदेवाभिसंधाय तत्प्रयोगस्थलं दर्शयति - तेपां त्विति । तुशब्दो भिन्नक्रमः । विवृतिस्त्विति संबन्धः । विवृतिः विवरणं प्रकाशनमित्यर्थः । स्थायवागेषु स्थायाश्रिता वागाः ; स्थायो रागावयवः, वागो गमक इति वक्ष्यते ; तेषु रागावयवाश्रितगमकेषु । तेषां मिश्रभेदानां विवृतिस्तु संविधास्यते ; समनन्तरमेव करिष्यत इत्यर्थः ।। ८७-९७॥
(सं०) गमकान् निरूपयितुमाह - स्वरस्य कम्प इति । श्रोतुश्चित्तसुखदायको यः स्वरस्य कम्पः, स गमक इत्युच्यते । गमकशब्दस्य व्युत्पत्तिश्च कथिता पार्श्वदेवेन -
"C 'स्वश्रुतिस्थानसंभूतां छायां श्रुत्यन्तराश्रयाम् । स्वरूपं गमयेद्गीते गमकोऽसौ निरूपितः ॥ "
इति । तस्य भेदानाह— तस्य भेदा इति । तस्य गमकस्य पञ्चदश भेदा भवन्ति । तेषां लक्षणमाह - लघिष्ठेति । अल्पस्य डमरोर्ध्वनेः यः कम्पस्तद्वद्रमणीय:, द्रुतस्य चतुर्थांशवेगेन यः स्वरस्य कम्प:, स तिरिप इत्यभिधीयते । स्वरस्प कम्प इति सामान्यलक्षणादनुवर्तनीयम्,
66
सामान्य
Scanned by Gitarth Ganga Research Institute