________________
२६८ संगीतरत्नाकरः
[जातिमध्ये गाश्चत्वारः; पौ द्वौ ; धपावेकः ; म एकः; एवमष्टौ लघवः । सौ, इति प्रथमः ; शेषाः परे (१) द्वितीयस्यां मध्ये धाः पञ्च ; निरेकः; सनिनय एकः ; ध एकः ; एवमष्टौ लघवः । शेषाः सर्वे (२)। तृतीयस्यां मन्द्रे पा अष्टौ लघवः । म्यमिति प्रथमः पः ; शेषाः परे (३) । चतुर्थी मन्द्रे धनिमपाश्चत्वारः ; गाश्चत्वारः ; एवमष्टौ लघवः । वेदाङ्गवेदेत्यक्षराणि ; द्वितीयचतुर्थसप्तमाः शेषाः (४) । पञ्चम्यां मध्ये मरी द्वौ ; गाः पट ; एवमष्टौ लघवः । करकमलयोनिमित्यक्षराणि ; सप्तमः शेषः (५) । षष्ठयां मध्ये मौ द्वौ ; पौ द्वौ ; ध एकः ; निधावेकः ; पौ द्वौ ; एवमष्टौ लघवः । तमोरजोविवेत्यक्षराणि ; सप्तमादयः शेषाः (६)। सप्तम्यां मध्ये धनिमपाश्चत्वारः ; गाश्चत्वारः ; एवमष्टौ लघवः । जितमिति धनी; तृतीयादयः शेषाः (७) । अष्टम्यां मध्ये गमावेकः ; पास्त्रयः; मौ द्वौ ; गौ द्वौ ; एवमष्टौ लघवः । हरमिति गमौ ; शेषाः परे (८) । नवम्यां सप्तम्युक्ताः स्वराः । भवहरकमलगृ, इत्यक्षराणि (९) । दशम्यां मध्ये मा अष्टौ लघवः । हमिति प्रथमः ; शेषाः परे (१०) । एकादश्यां मध्ये रिगमपाश्चत्वारः ; पमावेकः ; पो द्वौ ; निरेकः ; एवमष्टौ लघवः । शिवं शान्तं संनीत्यक्षराणि : चतुर्थषष्ठाप्टमाः शेषाः (११) । द्वादश्यां मन्द्र ऋषभाश्चत्वारः; पौ द्वौ ; मौ द्वौ ; एवमष्टौ लघवः । वेशनमपूर्वमित्यक्षराणि ; द्वितीयसप्तमौ शेषौ (१२)। त्रयोदश्यां मन्द्रे धनी द्वौ; मध्यषड्जमन्द्रनिनय एकः ; ध एकः ; पाश्चत्वारः; एवमष्टौ लघवः । भूषणलीलमित्यक्षराणि ; तृतीयचतुर्थपञ्चमाष्टमदशमाः शेषाः (१३) चतुर्दश्यां मन्द्रे धनिमपाश्चत्वारः : गाश्चत्वारः; एवमष्टौ लघवः । उरगेशभोगेत्यक्षगणि; चतुर्थसप्तमौ शेषौ (१४)। पञ्चदश्यां मध्ये ग एकः ; पास्त्रयः ; धमगमाश्चत्वारः ; एवमष्टौ लघवः । भासुरशुभपृथ्वित्यक्षराणि ;
Scanned by Gitarth Ganga Research Institute