SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७ ] २९. प्रथमः स्वरगताध्यायः धा धा सा नी धा नी पा पा मधु सू द न सु मा पा धा मा धिक सु ३१. नी नी नी नी धा पा मा मा ग ति यो ३०. री री री री ते जो ३२. मा परिंग गा गा गा गा गा गा निं m २६७ 1 (क०) नन्दयन्त्यामिति । गांधारस्तु ग्रहः स्मृत इति । अत्र अंश एव ग्रहः कार्यः' इति सकलजातिसाधारणेन मुनिवचनेन प्राप्तस्य पञ्चमहत्वस्य : गांधारग्रहो जातिविशेषे कार्यः' इति विशेषविषयं तद्वचनमेव तत्र कौण्डिन्यनयेन बाधकमित्यवगन्तव्यम् । गीतवेदिभिर्लक्षणज्ञैः कैश्चिदाचार्यैस्त्वस्यां पञ्चमो ग्रहः प्रोक्त इति पक्षान्तरम् । मन्द्रर्षभस्य बाहुल्यमिति । नन्दयन्त्या माध्यमग्रामिकत्वेन ऋषभपर्यन्ताया मन्द्रगतावभावे ऽपि मन्द्रपञ्चमारम्भनिप्पन्नहृप्य कामूर्च्छनाऽऽश्रयत्वादंशीभूतमन्द्रपञ्चमेन ऋषभमात्रस्य संवादादितरस्थानस्थितापेक्षया मन्द्रर्षेभस्य बाहुल्यं कर्तव्यमित्यभिप्रायः । तथा चाह भरतः --- 'बाहुल्यमृषभस्यात्र तच मन्द्रगतं स्मृतम् ' इति । ताल: पूर्वावदति । पूर्वावदान्प्रयामिव तालश्चच्चत्पुटः । द्विगुणाः कला इति । पूर्वाsपेक्षया द्विगुणाः । पूर्वस्यां कलाः षोडश ; अस्यां तु द्वात्रिंशत्कला भवन्तीत्यर्थः । एतेन चच्चत्पुटस्य दक्षिणमार्गे चतुरावृत्तिरुक्ता भवति । अन्यत्सुगमम् । माध्यमग्रामिकशुद्धस्वरमेलने प्रथमकलायां Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy