SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २५६ संगीतरत्नाकर: अथ गांधारपञ्चमी अंशो गांधारपञ्चम्यां पञ्चमः संगतिः पुनः ।। १०३ ॥ कर्तव्या ऽत्रापि गांधारीपञ्चम्योरिव भूरिभिः । चच्चत्पुटः षोडशात्र कला गादिश्व मूर्च्छना ॥ १०४ ॥ तुर्यप्रेक्षण संवन्धिधुवागाने नियोजनम् । [जाति निषादाश्चत्वारः; एवमष्टौ लघवः । यज्ञोपवीतेत्यक्षराणि; द्वितीयचतुर्थसप्तमाः शेषाः (१५) | षोडश्यां तारे नी द्वौ ; धौ द्वौ ; पाश्चत्वारः ; एवमष्टौ लघवः । कमिति प्रथमो निः; शेषाः परे (१६) । तं स्थाणुललितवामाङ्गसक्तमतितेजः प्रसरसौधांशुकान्ति फणिपतिमुखमुरोविपुल सागरनिकेतं सितपन्नगेन्द्रमतिकान्तम् । षण्मुखविनोदकरपल्लवाङ्गुलि विलासकीलन विनोदं प्रणमामि देवयज्ञोपवीतकम् ॥ इति कार्मारवी ॥ १५ ॥ (क० ) अंशो गांधारपञ्चम्यामिति । संगतिः पुनः संगतिस्तु गांधारीपञ्चम्योरिवात्रापि भूरिभिः कर्तव्येति । गांधार्यां तावत् 'न्यासांशाभ्यां तदन्येषाम्' इत्युक्तम्, तद्वदत्रापि न्यासांशाभ्यां गांधारपञ्चमाभ्यां तदन्येषां सरिमधनीनाम्; पञ्चम्यां तु 'रिमयो:' इत्युक्तत्वादत्राप्यृषभमध्यमयोर्मिश्रश्च ; एवं भूरिभिः स्वरैः संगतिः कर्तव्यत्यतिदेशार्थः । शेषं सुबोधम् ॥ १०३ - १०४ ॥ (सु० ) गांधारपञ्चमी लक्षयति- अंश इति । गांधारपञ्चम्यां पञ्चमो ऽंश: । गांधारीपञ्चम्योरिव स्वराणां संगतिः । चच्चत्पुटस्ताल: । षोडश कलाः । गांधारादिर्मूर्च्छना । ध्रुवायां चतुर्थप्रेक्षणे विनियोगः ॥ -१०३–१०४ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy