________________
२४८ संगीतरत्नाकरः
[जातिअथ मध्यमोदीच्यवा पञ्चमांशा सदा पूर्णा मध्यमोदीच्यवा मता । लक्ष्म शेषं विजानीयाद गांधारोदीच्यवागतम् ॥ ९९ ॥ मूर्च्छना मध्यमादिः स्यात्तालश्चञ्चत्पुटो मतः ।
चतुर्थस्य प्रेक्षणस्य ध्रुवायां विनियोजनम् ॥ १०० ॥ एवमष्टौ लघवः । हृदि सुखदमिति क्रमेण पञ्च ; शेषाः परे (१०)। एकादश्यां तारे मपमास्त्रयः; पास्त्रयः; मौ द्वौ; एवमष्टौ लघवः । प्रणमामि लोचैत्यक्षराणि ; चतुर्थाष्टमौ शेषौ (११) । द्वादश्यां तारे समगास्त्रयः ; निधनय एकः ; नी द्वौ ; मगौ द्वौ ; एवमष्टौ लघवः ; नविशेषमित्यक्षराणि --- नविशेभिः समगाः ; पमिति सप्तमो निः ; शेषा इतरे (१२)।
केलीहतकामतनुविभ्रमविलासं तिलकयुतं मूधोंर्ध्वबालसोमनिभम् । मुखकमलमसमहाटकसरोजं हृदि सुखदं प्रणमामि लोचन विशेषम् ।।
इति कैशिकी ॥ १३ ॥ (क०) पञ्चमांशेति । एकः पञ्चम एवांशो यस्याः सा तथोक्ता । सदा पूर्णेति । कदाचिदपि षाडवौडवा च न भवतीत्यर्थः । शेषं लक्ष्मांशेन वा ऽल्पत्वं रिधयोमिथः संगतिः षोडश कला इत्येतावल्लक्षणं गांधारोदीच्यवागतं विजानीयात् ; तदत्राप्यनुसंधेयमित्यर्थः । मध्यमादिर्मर्च्छना सौवीरी । अन्यत्सुबोधम् ॥ ९९, १०० ॥
(सु०) मध्यमोदीच्यवां लक्षयति-पञ्चमांशेति । मध्यमोदीच्यवायां पञ्चमो ऽशस्वरः । पूर्णत्वं सप्तस्वरत्वमेव । षाडवौडुविते न स्तः । अवशिष्टं लक्षणं गांधारोदीच्यवावज्ज्ञातव्यम् । मध्यमादिमूच्र्छना। चच्चत्पुटस्ताल: । ध्रुवायां चतुर्थप्रेक्षणे विनियोगः ॥ ९९, १०० ॥
Scanned by Gitarth Ganga Research Institute