SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७] प्रथमः स्वरगताध्यायः २३९ एवमष्टौ लघवः । म्येति धः; शेषा इतरे (२) । तृतीयस्यां मध्ये धनिससममपपा अष्टौ लघवः । गौरीमुखाम्व्वित्यक्षराणि ; द्वितीयचतुर्थसप्तमाः शेषाः (३)। चतु• मध्ये निषादा अष्टौ लघवः । रुहदिव्यतिलकेत्यक्षराणि ; चतुर्थः शेषः (४)। पञ्चम्यां मध्ये ममधास्त्रयः ; निसावेकः ; निषादाश्चत्वारः; एवमष्टौ लघवः । परिचुम्बिता/त्यक्षराणि-चतुर्थपञ्चमाष्टमाः शेषाः (६) । षष्ठयां मध्ये मपमास्त्रयः ; परिगा एकः ; गौ द्वौ ; सौ द्वौ; एवमष्टौ लघवः । तसुपादमित्यक्षराणि-तसुपाभिर्मपमाः ; शेषाः परिगाः ; दमिति गः; शेषाः परे (६) । सप्तम्यां मध्ये ग एकः ; मगावेकः ; प एकः; पधावेकः ; म एकः ; धनी एकः ; पौ द्वौ; एवमष्टौ लघवः । प्रविकसितहेमेत्यक्षराणि-प्रविभ्यां गमौ; तच्छेषो गः; कसिभ्यां पपौ; तच्छेपो धः; तेन मः ; हे इति धः ; तच्छेषौ निपौ; मेन पः (७) । अष्टम्यां मध्ये रिगसास्त्रयः; सधावेकः; नी द्वौ ; धौ द्वौ; एवमष्टौ लघवः । कमलनिभमित्यक्षराणि--पञ्चमः शेषः ; भमिति निः; तच्छेषाः परे (८) । नवम्यां मध्ये ग एकः ; रिगावेकः ; स एकः; सनी एकः ; ग एकः ; रिगावेकः ; सौ द्वौ ; एवमष्टौ लघवः । अतिरुचिरकान्तीत्यक्षराणि-तृतीयषष्ठनवमदशमाः शेषाः (९) । दशम्यां मध्ये सास्त्रयः ; म एकः ; मनी एकः ; धनी एकः ; नी द्वौ ; एवमष्टौ लघवः । नखदर्पणामेत्यक्षराणि ; चतुर्थषष्ठाष्टमनवमाः शेषाः (१०)। एकादश्यां तारे मपमास्त्रयः ; परिगा एकः ; गौ द्वौ ; सौ द्वौ ; एवमष्टौ लघवः । लनिकेतमित्यक्षराणि-लनिकेभिर्मपमाः; तच्छेषाः परिगाः; तमिति गः ; शेषाः परे (११) । द्वादश्यां तारे गसगसमपमाः सप्त ; परिगा एकः ; एवमष्टौ लघवः । मनसिजशरीरेत्यक्षराणि ; शेषाः परिगाः (१२) । त्रयोदश्यां तारे गमगसाश्चत्वारः ; गास्त्रयः ; स एकः ; एवमष्टौ लघवः । ताडनमित्यक्षराणि-ताडनमित्यक्षरैः प्रथमचतुर्थपञ्चमाः ; शेषा इतरे (१३)। Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy