SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७] प्रथमः स्वरर्गताध्यायः २३१ इतरे ( ६ ) । सप्तम्यां मध्ये स एकः ; मन्द्रे गाः पञ्च; मध्ये सौ द्वौ ; एवमष्टौ लघवः । अधिकैः प्रथमतृतीयपञ्चमाः; शेषा इतरे (७) । अष्टम्यां मध्ये निधपधपधधधा अष्टौ लघवः । मुखेन्दुभिः प्रथमतृतीयाष्टमा:; शेषा इतरे (८) | नवम्यां तारे सौ द्वौ ; मध्ये मगपपनिधाः षट् ; एवमष्टौ लघवः । अधिकमुखेन्द्वित्यक्षराणि; चतुर्थसप्तमौ शेषौ (९) । दशम्यां मध्ये धनी द्वौ ; तारे सौ; मध्ये धनिपमाश्चत्वारः ; एवमष्टौ लघवः । नयनं नमामीत्यक्षराणि; चतुर्थसप्तमौ शेषौ (१०) । एकादश्यां मन्द्रे ग एकः ; मध्ये साः षट् ; मन्द्रे ग एकः ; एवमष्टौ लघवः । देवासुरेशेत्यक्षराणि; द्वितीयचतुर्थसप्तमाः शेषाः (११) । द्वादश्यां मध्ये धधपधाश्चत्वारः ; तारे माश्चत्वारः ; एवमष्टौ लघवः । तव रुचिरमित्यक्षराणि ; षष्ठादयस्त्रयः शेषाः (१२) । शैलेशसूनुप्रणयप्रसङ्गसविलासखेलन विनोदम् । अधिकमुखेन्दुनयनं नमामि देवासुरेश तव रुचिरम् || सर्वासु जातिषु मागध्यादिषु गीतियोजनादिकप्रदर्शनार्थमस्यां त्रिरावृत्तपदा मागधी द्विवृत्तपदा ऽर्धमागधीत्या दिवक्ष्यमाणलक्षणानुसारेणार्धमागधीगीतियोगं दर्शयति — शैलेऽक्षराभ्यामित्यादिना । प्रथमा प्रथमकला शैलेऽक्षराभ्यां शै ले इत्याभ्यामक्षराभ्यां योजनीयेति शेषः । द्वितीया तु शसूनुनेति । द्वितीयकला तु शसूनुनेति द्वंद्वैकवद्भावः, श सू नु इति त्रिभिरक्षरैर्योजनीयेत्यर्थः । तैः पञ्चभिस्तृतीया स्यादिति । तृतीयकला तैः, शैलेश सू नु इति पञ्चभिरक्षरैर्योजनीया स्यात् । सप्तमी त्वधिकाक्षरैरिति । अधिक इत्येतैस्त्रिभिरक्षरैः । अष्टमी तु मुखेन्दुना मु खें दु इति त्रिभिरक्षरैः । नवमी तै:, अधिक मुखें दु इति षड्भरक्षरैः । अन्यासु कलासु यथालक्षणं गीतान्तरयोगो द्रष्टव्यः ॥ ८४, ८४ ॥ इति षड्जोदीच्यवा ॥ ९ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy