________________
प्रकरणम् ७] प्रथम: स्वरगताध्यायः
२२७ नवम्यां मध्ये सास्त्रयः ; रिगावेकः ; स एकः ; रिगावेकः ; धौ द्वौ ; एवमष्टौ लघवः । हरमम्बुदोदेत्यक्षराणि-हरमं इति साः ; तच्छेषौ रिगौ ; बुदोभ्यां सरी; तच्छेषों गधौ ; देन धः (९) । दशम्यां मध्ये मधौ द्वौ ; पौ द्वौ ; धौ द्वौ ; नी द्वौ ; एवमष्टौ लघवः । धिनिनादमित्यक्षराणि-धिनिनाभिर्मधपाः ; तच्छेषः पः ; दमिति धः ; तच्छेषाः परे (१०)। एकादश्यां मध्ये रिरिंगसाश्चत्वारः ; मन्द्रे सास्त्रयः ; ग एकः ; एवमष्टौ लघवः । अचलवरसून्वित्यक्षराणि ; सप्तमः शेषः (११) । द्वादश्यां मन्द्रे ध एकः ; रिसावेकः ; रिरेकः ; सरी एकः ; रिरेकः ; सास्त्रयः ; एवमष्टौ लघवः । देहार्धमिश्रीत्यक्षराणि-दे इति धः; तच्छेषौ रिसौ ; हा इति रिः; तच्छेषौ सरी; धमिभ्यां रिसौ ; तच्छेषः सः ; श्रिणा सः (१२) । त्रयोदश्यां मध्ये स एकः ; सरी एकः ; रिरेकः ; सरी एकः ; रिरेकः ; सास्त्रयः ; एवमष्टौ लघवः । तशरीरमित्यक्षराणि-- तशाभ्यां सौ ; तच्छेषो रिः; री इति रिः। तच्छेषौ सरी; रमिति रिः; तच्छेषाः साः (१३)। चतुर्दश्यां मध्ये माश्चत्वारः ; निधावेकः; पधावेकः ; मौ द्वौ ; एवमष्टौ लघवः । प्रणमामि तमहमित्यक्षराणि ; चतुर्थषष्ठदशमाः शेषाः (१४) । पञ्चदश्यां मध्ये निनिपास्त्रयः ; पमावेकः ; प एकः ; पमावेकः ; पधावेकः ; रिगावेकः; एवमष्टौ लघवः । अनुपमसुखकमेत्यक्षराणि ; पञ्चमाष्टमदशमद्वादशाः शेषाः (१५) षोडश्यां मध्ये गांधारा अष्टौ लघवः । लमिति गः ; तच्छेषा इतरे (१६)।
देवमसकलशशितिलकं द्विरदगति
निपुणमतिं मुग्धमुखाम्बुरुह दिव्यकान्तिम् । हरमम्बुदोदधिनिनादमचलवरसूनुदेहार्धमिश्रितशरीरं
प्रणमामि तमहमनुपममुखकमलम् ।। इति षड्जकैशिकी ॥ ८ ॥
Scanned by Gitarth Ganga Research Institute