________________
.. नृत्याध्याये चतुः पादः । अघोष्टिशिरपातवदनं चिहतालुकम् (१)। ............. वरगात्रमिति-स्मृतम्॥३३॥ अर्धपार्श्वगतिं शीर्ष वक्रकरिसमन्वितम् । वामहस्तेखलितट कटकं विषगात्रकम् ॥ ३४ ॥ अर्धगावरजिशिरः पुरोहस्तौ कटीतटौ। .. धृत्वा रञ्जितसर्वत्रनुत्यं वृत्यं च कोहलम् ॥ ३५॥ तथैव वामजहोर शिरो निक्षिप्य दृष्टयः। गमनं च फणीवालं ......."भवेत्तथा ॥ ३६॥ अन्तःशिरो बायशिरो(र.) ऊर्ध्वाधो बाहुकुहनम् । भ्रमति भ्रम्यचतुरो विटभाटावणिक्रमम् ॥ ३७॥ चित्रं चैवातिचित्रं च विन्दन्ति सम एव च (१)। चत्वारधरणा.भेदाः कथिता नारदेन च ॥ ३८॥ वक्रपादाङ्गुलीरम्यं नटभावं विनिर्दिशेत् । नीचोचगमनं कुर्याचित्रलक्षणमुच्यते ॥ ३९॥ उभौ पादाङ्गुली वक्रो (के) कृत्वा गमनमादिशेत् । मध्ये भ्रमणकं कुर्यादतिचित्रं वदन्ति च ॥४०॥ पादमालाङ्गुलौं गम्यमधोहस्तौ कृतौ नटः। अर्धपार्श्ववक्रभेदं भवेद्विदन्ति तालगाः॥४१॥ समपादौ समा दृष्टिः समचारीकृतान्विताः। समभ्रमणनटना सममित्युच्यते बुधैः॥४२॥ त्रयस्त्रिंशनटीभावाः सर्वदेशेषु संमताः। . सवेंशाखासमा भावाः कथिता नारदेन च ॥४३॥ इति श्रीनारदकतौ सङ्गीतमकरन्दे नृत्याध्याये हस्तकप्रकरणं नाम
चतुर्थपादः समाप्तः ॥ इति सङ्गीतमकरन्दः समाप्तः ।
.
१अत्रादर्शपुस्तके सप्ताक्षराणि लसानि । २ अत्रादर्शपुस्तके चत्वार्यक्षराणि त्रुटितानि । ३ इतोऽप्रे आदर्शपुस्तके लेखकेन आदर्शपुस्तकलेखनकालः खाभिधानादिकं च निरूपितं यथा
"शके १५९९ शालिवाहे पिझलनामवत्सरे आश्विनमासे शुक्लपक्षे विजयदशम्यां विद्यापुरमहानगरे श्रीमन्महागणपविदासकृम्माजीदत्तेनेदं सजीतमकरन्दाख्यपुस्तकं लिखितम् । महागणपतिपति" .