SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ * भुजङ्गवासितम्] नृ० र० को०-उल्लास ३, परीक्षण १ हस्त आक्षिप्यते चाटिरेवमेवाङ्गकं पुनः। अपरं क्रियते यत्र विक्षिप्ताक्षिप्तिकं तु तत् ॥ विनियोज्यं गतौ चैतदागतौ च विचक्षणैः। प्राधान्याचरणस्येदं न तथा मन्वते परे ॥ यतो वाक्यार्थधीहस्ताभिनयस्यानुसारिणी। प्राधान्यतो हस्तकानां नृत्यमात्रपरं त्विदम् ॥ अन्यदङ्गमतस्तालानुसंधाने चिकीर्षतः। अन्तरालानुसंधाने गतीनां च परिक्रमे । योज्यं करणमेतादृगिति तद्वेदिनां मतम् ॥ ॥ इति विक्षिप्ताक्षिप्तिकम् ॥ २१ ॥ भुजङ्गत्रासितां चारी विधायाक्षिप्य कुञ्चितम् । अधिं विधायोरुकटीजानु त्र्यत्रं विवर्तयेत् ॥ एकदोलाकरं कृत्वा तथान्यं खटकामुखम् । व्यावृत्तिपरिवृत्तिभ्यां भुजङ्गत्रासितं तु तत् ॥ ॥ इति भुजङ्गत्रासितम् ॥ २२ ॥ नितम्बश्चतुरस्रो वा करोऽलाता च चारिका । दक्षिणाङ्गे तथा वामे तूर्ध्वजानुस्तथैव चेत् । अङ्गान्तरं तदालातं ललिते नृत्त ईरितम् ॥ . ॥ इत्यलातम् ॥ २३ ॥ वृश्चिकं चरणं कृत्वा तत्पक्षस्थं करं पुनः । अरालं शीर्ष आधाय वेगानासाप्रदेशतः ॥ कृतो वक्षस्यरालोऽन्यस्तद्विख्यातं निकुश्चितम् । योज्यमुत्पतनोन्मुख्ये वितर्कादौ च सूरिभिः। एके पताकसूच्यास्यावपि नासाग्रगौ जगुः ॥ ___॥ इति निकुञ्चितम् ॥ २४॥ ____ 1 After अलातम् ॥ २३ ॥ ABO give the following description of विक्षिप्त which has its proper place after अतिक्रान्तम् ॥ १५ ॥ The meaning of the verses is the same but readings differ: विपद्धान्तां दण्डपादां क्रमाञ्चार्यों विधाय चेत् । उद्वेष्टितं तदा चापवेष्टितं करयोः क्रमात् ॥ एकमार्गयोः कृत्वा रेचयेदग्रपृष्ठयोः । पार्श्वयोर्विक्षेपे तो हि विक्षिप्तं तु तदा भवेत् । अभिनेयस्तथैतेन वीरोद्धतपरिक्रमः ॥
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy