SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पिस्वस्तिकम् ] नृ० र० को०-उल्लास ३, परीक्षण १ करागिरचितो यत्र खस्तिको त्रुटिताङ्गकः । अग्रतः पृष्ठतः पार्श्वे तद् दिक्खस्तिकमुच्यते ॥ स्याद्गीतपरिवर्तेऽस्य विनियोगः प्रकीर्तितः। खस्तिकोत्त्यन्तरेषु स्यात् स्वस्ति[क]प्रक्रिया त्वियम् ॥ ४७ ॥ इति दिक्वस्तिकम् ॥ ११॥ आविद्धां रचयन् चारी पादमश्चितमाचरेत् । करौ क्रमाद्रचिती स्तो यत्रोन्मत्तं तु तद्भवेत् । सौभाग्यादिसमुद्भूते गर्वे विद्वद्भिरीरितम् ॥ ॥ इत्युन्मत्तम् ॥ १२॥ लताहस्तौ समनखौ चरणौ संयुतौ मिथः । देहः खाभाविकः प्राक् प्रवेशे समनखं तु तत् ॥ ॥ इति समनखम् ॥ १३॥ चतुरस्रं समास्थाय हस्तौ तु चतुरस्रितौ। व्यावर्त्य दक्षिणं हस्तं मुहुनिष्काशयन् भजेत् ॥ आक्षिप्तमथ तं हस्तं शुकतुण्डाकृतिं नयन्। पातयेद्दक्षिणस्योरोरुपर्यत्रापरः करः॥ वामे दक्षस्थितो यत्र खटकामुखसंज्ञकः । अपविद्धं तदेव स्यात् कोपासूयार्थदर्शने ॥ ॥ इत्यपविद्धम् ॥ १४ ॥ नासादेशं गतो यत्र व्यावर्तपरिवर्तनम् । कृत्वा धत्तेऽलपद्मत्वं करिहस्तस्तदाश्चितम् । खस्यातिकौतुकाद्योज्यं सम्मुखप्रेक्षणे हि तत् ॥ ॥ इत्यञ्चितम् ॥ १५ ॥ विधाय चतुरस्रः सन् हंसपक्षौ द्रुतभ्रमौ । शीर्षादूर्ध्वमधो नीत्वा व्यावर्तपरिवर्तितः॥ .......५४23 आविद्धवक्रौ तावेव वक्षसि खस्तिकीकृतौ । कव्यां नीत्वा ततः पक्षप्रद्योतकविधानतः॥ चारी तदशगां कृत्वा बहित्थं स्थानकं ततः।
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy