SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ लीनम् ] नृ० १० को ० - उल्लास ३, परीक्षण १ व्यावृत्त्य दक्षिणं पार्श्वमागते करयोर्युगे । परिवर्तनतो वामं पार्श्व सन्नतमाश्रिते ॥ कुक्षेत्रं श्रितो यत्र हस्तः पुष्पपुटो भवेत् । तलपुष्पपुढं तत् स्यात् पादेऽग्रतलसञ्चरे ॥ रङ्गे पुष्पाञ्जलिक्षेपे लज्जिते योषितामपि । यदान्यकरणादेतदनु स्यात् करणं तदा । एतत् करक्रियां त्यक्त्वा ग्राह्या तत् करणानुगा ॥ ॥ इति तलपुष्पपुटम् ॥ १ ॥ * ग्रीवानतांसकूटं च भवेद्यत्र निहञ्चितम् । ऊर्ध्वमण्डलिनौ हस्तौ विधाय हृदयेऽञ्जलिः । यत्र तत्करणं लीनं वल्लभाभ्यर्थने स्मृतम् ॥ ॥ इति लीनम् ॥ २ ॥ * हृदयाभिमुखौ हस्तावाश्लिष्टमणिबन्धकौ । समं स्वस्तिकतां नीतौ व्यावृत्तपरिवर्तितौ ॥ उत्तानौ पातयेदूर्वोर्यत्र तद्वर्तितं मतम् । पताकौ पातयेत्तौ हि यत्रासूया प्रयुज्यते ॥ क्रोधेऽधोवदनौ स्यातां निघृष्टौ तौ तथाविधौ । विनियोगवशादन्ये शुकतुण्डादिका इह ॥ ॥ इति वर्तितम् ॥ ३ ॥ * व्यावृत्तिपरिवृत्तिभ्यां समं वक्षसि चेत् करौ । कृत्वाक्षिप्तिकया चार्या परिवर्त्य च संहतौ ॥ 'वक्षो नीत्वा निधीयेते शुकतुण्डावधोमुखी । एवं कृत्वा ततश्चारीं बद्धां कृत्वा स्थितिर्यदा । क्रियते वलितो स स्यान्मुग्धस्त्रीव्रीडिते स्मृतम् ॥ ॥ इति वलितोरु ॥ ४ ॥ * मण्डलं स्थानकं कृत्वा चतुरस्रौ करौ ततः । विदध्याद्विच्यवां चारीमूर्ध्वमण्डलितौ करौ ॥ उद्वेष्टितेन कृत्वा तौ विदध्यात् स्वस्तिकाकृती । मण्डलस्वस्तिकं तत् स्यात् प्रसिद्धार्थावलोकने ॥ ॥ इति मण्डलस्वस्तिकम् ॥ ५ ॥ * 1 ABO वक्षौ । १४७ २३ २४ २५ २६ २७ २८ २९ ३० ३१ ३३ 10 15 20 25 30
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy