________________
२२८ नृ० र० को०-उल्लास ४, परीक्षण ४
[श्रमविधिः अत्र वाद्यं प्रहरणमाभोगेऽपि च तन्मतम् । वाद्यसाम्येन च त्यागं कृत्वा विश्रान्तिमाचरेत् ॥ ध्रुवेणैवं विधायाथ विधिवनतनं तथा। ध्रुववद् मण्ठकाद्यैश्च प्रारभेन्नर्तनं सुधीः ॥ परं तेषु विशेषो यः सोऽत्र सम्यग् निरूप्यते । ध्रुवखण्डनमण्ठादेः केवलं नर्तनं स्मृतम् ॥ प्रारम्भे मण्ठतालेन मण्ठो नर्त्तनमाचरेत् । ततः क्रमादेकताल्या मण्ठके नर्त्तनं भवेत् ॥
प्रतिमण्ठादिषु प्रोक्तं खतालेनैव नर्त्तनम् । 10 प्रायः सालगसूडस्थे गीतं कुर्याद्रुते लये ॥
ताण्डवे पण्डितैरुक्तो लयः प्रायो विलम्बितः । नर्त्तित्वा सालगे सूडे त्वेकताल्यन्तरूपकैः । त्यागो' यत्र भवेदेष विज्ञेयो गौण्डलीविधिः॥
॥ इति गौण्डलीविधिः॥
[श्रमविधिः । नमस्कृत्य गणाधीशं तथा देवी सरस्वतीम् । ब्रह्मविष्णुमहेशांश्च रङ्गदैवतकैः सह ॥ क्रमात्तालं वाद्यभाण्डमुपाध्यायं तथा पुनः ।
नृत्तकन्याः स्तम्भयुग्मं दण्डिकां च प्रपूजयेत् ॥ 20 चन्दनागरुकर्पूरमृगनाभिमुखैः शुभैः।
विलेपनैश्च सामोदैः सौरभ्येण मनोहरैः॥ पुष्पैश्च विविधै पैरारात्रिकसमन्वितैः । नानाविधैश्च नैवेद्यैर्वस्त्रैर्वर्णविभूषितैः ॥
बलिपूजोपहारैश्च प्रार्चयेद्रङ्गदेवताः। 26 ततः शुभे मुहूर्ते च प्रारभेत श्रमं सुधीः॥
कन्यां हृदयदनां च दण्डिकां तिर्यगायताम् । स्तम्भद्वयोपरि स्थाप्यां हस्तग्राह्यां सुयन्त्रिताम् ॥ अवलम्बाय तस्याश्च दृढां श्लक्ष्णां समां तथा। ततोवाचतश्चाल)यित्वा चलनं शुभ्रमादाय कझुकम् ॥ ८५ 10°गे।