________________
१२०
नृत्यानानि] नृ०र० को०-उल्लास ४, परीक्षण ३
य उद्घहादिधातूनां समाप्तिं ज्ञापयेदय । तालताडनभेदोऽसौ ताल इत्यभिधीयते ॥ गीतादौ तु भवेत् कल्पस्तालः कल्पसमापने । मध्ये कलासो विज्ञेयः कैश्चिदेष विधिः स्मृतः॥
॥ इति देशीनृत्यपरिभाषा ॥
[नृत्याङ्गानि । श्रुतितिं कलासश्च तालश्चेति चतुष्टयम् । 'इति देशीविदः प्राहुर्नृत्याङ्गानि समासतः॥
॥ इति नृत्याङ्गचतुष्टयम् ॥
[ देशीगीतनृत्यविधिः।] आलप्त्यादिविभेदेन देशीनृत्यविधिक्रमः। पृथक् प्रदर्शितः कैश्चित् स एवात्रोपदिश्यते ॥ रङ्गप्रवेशे सञ्जाते पार्श्वयोश्चतुरः करान् । 'अग्रत[:] षोडश त्यक्त्वा नर्तक्या गायकैस्ततः॥ १३१ आलप्तौ क्रियमाणायां नर्तकी वामपाणिना। धृत्वा चेलाञ्चलं दक्षे पताकं दधती करे। कलासैहावभावाभ्यां युतं भ्रमणमाचरेत् ॥
॥ इत्यालप्तिनृत्यम् ॥ १ ॥ अथानक्षरताले तु प्रवृत्ते गीतमानतः। संदंशं त्रिपताकाभ्यां नर्तकी नृत्यमाचरेत् ॥ ध्रुवनृत्ये यथौचित्यं षट् चत्वारोऽथ पञ्चधा। धातुद्वये द्विताली स्यात् कलासो हस्तकस्तथा ॥ १३४ खेच्छयात्र प्रकर्तव्य इति गीतविदो विदुः। षडक्ता मन्त(?ण्ठ)का येऽत्र त्रिताली तेषु संस्थिता ॥ १३५
॥ इति मण्ठकनृत्यम् ॥२॥ पताकाद्याः कपित्थान्ता रूपकेष्टकरा ध्रुवम् । ध्रुवे लयान् विलम्बादीनुद्वाहाभोगयो१तः ॥
॥ इति रूपकनृत्यम् ॥३॥
12
1 Kumbha inभ. को. (पृ.८५४) drops this line. 2. ABO दृश्यते। 3 अप्रतः षोडशः पञ्च नर्तक्यो गायकैः सह । Kumbha in भ. को. (पृ०५७). 4 B0 संमतिः। 5. ABO °गयोद्रु।