________________
[उत्तम
० र० को०-उल्लास ३, परीक्षण १ प्रसार्य पुनरानीतौ हस्तौ पादौ यदा पुनः । गात्रमुत्तचारीकमुद्रुतं तत् प्रकीर्तितम् ॥
__इत्युत्तम् ॥ ९४॥ चारी च जनितां कृत्वा करं कुर्याल्लताभिधम् । अन्यं वक्षास्थितं मुष्टिकरणं जनितं तदा। क्रियारम्भोऽभिनेतव्य एतेन महतां नृणाम् ॥
॥ इति जनितम् ॥ ९५॥
.. १६७
10.
करौ संघहिततलौ रचयित्वा पताकको । दोलापादां भजेचारी वैष्णवस्थानके स्थितः॥ दक्षिणं कटिदेशस्थं वामं रेचितमाचरेत् । तलसंघटितं तत् स्यादनुकम्पार्थगोचरम् ॥
॥ इति तलसंघट्टितम् ॥ ९६॥ आकाशाभिमुखो यत्र कुञ्चितश्चरणो व्रजेत् । रेचितौ च करौ विष्णुकान्तं स्यात् क्रमणे हरेः॥
॥ इति विष्णुकान्तम् ॥ ९७ ॥ विधाय चारीमाक्षिप्तां वामतस्तदनन्तरम् । हस्तं विधाय व्यावृत्तं परिवर्तनकारकम् ॥ अरालतां नयेदेनं नते दक्षिणपार्श्वके । एतचापसृतं ज्ञेयं विनयेनो(? ना)पसर्पणे ॥
॥ इत्यपसृतम् ॥ ९८॥
15
वैष्णवे स्थानके पाणिरेको वक्षसि रेचितः। अन्योऽलपल्लवः शीर्ष लोलितं पार्श्वयोर्द्वयोः । विश्राम्यति यदा प्राहुर्लोलितं करणं तदा ॥
॥ इति लोलितम् ॥ ९९॥ क्रमेण खस्तिकौ पादौ तथैवापसृतौ शिरः । परिवाहितमानीतो दोलौ हस्तौ यदा तदा। मदस्खलितकं प्राहुः प्रयोज्यं मध्यमे प(?मोदे ॥
. . ॥ इति मदस्खलितम् ॥ १०॥
25