________________
परावृत्ततला] नृ० र० को०-उल्लास २, परीक्षण ३
बहिश्चेत् प्रसृतः पाद उत्तानिततलः पुनः। पश्चाद्देशे तदा चारी परावृत्ततला स्मृता।
॥ इति परावृत्ततला ॥२॥ चरणौ खस्तिकीकृत्य पाष्योः पादाग्रयोस्तथा। रेचिती यत्र सा ज्ञेया चारी नूपुरविद्धिका ॥
॥ इति नूपुरविद्धिका ॥३॥ वर्धमानं समास्थाय पादौ चेद् द्रुतमानतः। सव्यापसव्यं सरतस्तदा तिर्यमुखा भवेत् ॥
॥ इति तिर्यमुखा ॥४॥ नन्द्यावर्तासनाजी चेत् पाणिप्रपदरेचितौ। पुरः प्रसारितौ चारी मराला साभिधीयते ॥
॥ इति मराला ॥५॥ . संहतं स्थानमास्थाय चरणौ यत्र घर्षति । धरणि पार्श्वदेशाभ्यां करिहस्ता तु सा स्मृता ॥
॥ इति करिहस्ता ॥६॥ नन्द्यावर्तस्थितावधी तिर्यग्यस्यां प्रसर्पतः। कुलीरिकेति सा प्रोक्ता चारी नृत्यविशारदैः॥ . .. ॥ इति कुलीरिका ॥ ७॥ विश्लिष्य पाणिविद्धायाश्चरणावुपसर्पतः। यद्वापसर्पतः सोक्ता विश्लिष्टा चारिका बुधैः॥
... ॥ इति विश्लिष्टा ॥ ८॥ नन्द्यावर्तस्थपादौ चेत् सरतः पृष्ठतो यदा। कातरा नाम सा चारी, .. ॥ इति कातरा ॥९॥
सा चोक्ता पाणिरेचिता। यस्यां पार्णिपार्श्वगते स्थाने स्थित्वाथ रेचयेत् ॥
॥ इति पाणिरेचिता ॥ १०॥