________________
विच्यवा] नृ०२० को०-उल्लास २, परीक्षण २
विच्युतौ समपादात(? या)श्चरणौ चेत्तलाग्रतः। निकुट्टयेतां धरिणीं विच्यवा प्रोच्यते तदा ॥
॥इति विच्यवा ॥४॥
वामः पादो दक्षिणांहेः पार्श्वदेशे निपात्यते। ततोऽपमृत्य दक्षः खे पार्श्वे व्यस्रतया स्थितः॥ सार्धतालान्तरत्वेन वामे पार्श्वे तथैव चेत् । दक्षिणो जायते व्यस्रस्तदा साध्यर्धिका भवेत् ॥ २४
॥ इत्यध्यर्घिका ॥५॥ दक्षिणे(?णा) ितालमात्रं पुरः स्मृ? कृत्वा द्वितालिकाम् । पृष्ठे याते समं पादावीषदुत्प्लुतिपूर्वकम् ॥ द्रुतोत्लुतोऽपमृत्यैव चरणावुपसर्पतः। पुनरुत्प्लुत्योऽपमृत्य कुर्यातामुपसर्पणम् । संत्रासादिव यत्रेयं बुधैश्वाषगतिः स्मृता॥
॥ इति चाषगतिः ॥ ६॥ किश्चिदुत्प्लुत्य पततो बत्राग्रतलसश्चरौ । क्रमेण चरणौ सेयमेलकाक्रीडितोदिता ।।
॥ इत्येलकाक्रीडिता ॥ ७॥
निहितेऽन्यस्य पादस्य मध्येऽग्रतलसश्चरे । कृते जङ्घाखस्तिकेऽन्यपादेऽग्रतलसञ्चरे ॥ घूर्णन्तौ यत्र कुर्वातेऽपमृति चोपसर्पणम् । समोत्सरितमत्तल्ली चारीयं मध्यमे मदे ॥
॥ इति समोत्सरितमत्तल्ली ॥ ८॥ अर्धव्यस्रौ यत्र पादौ जङ्घाखस्तिकमागतौ। भूमिश्लिष्टाखिलतलौ घूर्णन्तौ वोपसर्पतः। अथापसर्पतः सोक्ता मतल्ली तरुणे मदे ॥
. . ॥ इति मतली ॥९॥ अंहिः कनिष्ठयाङ्गुल्या तथाङ्गुष्ठेन च क्रमात् । १६ नृ० रन.