________________
5
10
15
20
११८
नृ० २० को०- उल्लास २, परीक्षण १
[ सुप्तस्थानकानि । ]
उत्तानवदनं सुप्तं स्रस्तमुक्तकरं समम् ॥ ॥ इति समम् ॥ १ ॥
*
आकुञ्चितं स्यादाविद्धजानु चाकुञ्चिताङ्गकम् । शीतार्ताभिनये तस्य विनियोगः स्मृतो बुधैः ॥ ॥ इत्याकुञ्चितम् ॥ २ ॥
*
प्रसारिते भुजामेकामुपधाय प्रसारिते । सुप्तं जानुनि तत्स्थानं सुखसु प्रकीर्तितम् ॥ ॥ इति प्रसारितम् ॥ ३ ॥
*
शस्त्रक्षतादिके सुप्तमघोवकं विवर्तितम् ॥
॥ इति विवर्तितम् ॥ ४ ॥
*
कूर्पराधिष्ठितक्षोणि स्कन्ध' न्यस्तशिरस्तथा । सुप्तमुद्वाहितं प्रोक्तं प्रभोर्लीलाद्यवस्थितौ ।। ॥ इत्युद्वाहितम् ॥ ५ ॥
*
सुप्तं स्रस्तरद्वंद्वमीषत्प्रसृतजङ्घकम् । तत् स्थानकं नतं खेदश्रमालस्यादिषु स्मृतम् ॥ ॥ इति नतम् ॥ ६ ॥
॥ इति षट् सुप्तस्थानकानि ॥
*
[ सुप्तस्थानकान
ध्यानं वैष्णवमन्वहं प्रकुरुते शैवं तदा पूजनं ब्राह्मं धर्ममधिष्ठिते (? तं न कुरुतेऽन्यस्मै नतं खं शिरः । यत् स्वस्थं च मदालसं गतमतः क्रान्तं दुह्वन्मण्डलं सोऽयं सांप्रतमुत्कटं वितनुते तन्नागबन्धं सुधीः ॥ इति श्रीराजाधिराजश्री कुम्भकर्णमहो महेन्द्रेण विरचिते संगीतराजे षोडशसाहस्र्यां सङ्गीतमीमांसायां नृत्यरत्नकोशे चारिकोल्लासे स्थानकपरीक्षणं प्रथमं समाप्तम् ।
८६
८७
८८
८९
९१
९२
1 ABC स्कन्धं न्य° | compare स्कन्धन्यस्तशिरः । सं र, अ, ७ श्लो. ११०९. o drops the whole verse,