________________
३५०
काव्यादर्शना मसंकेत समेतः [ १० द० उल्लासः ],
व्यक्तेरयुक्तमेव पुनः कथनम् ।
तदेतेऽलंकारदोषा यथासंभविनोऽन्येऽप्येवं जातीयकाः पूर्वीद्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः । बहुविधाकारभर क्षमो भवति कोऽपि भवानिव सन्मणिः ॥
—अत्र भवदर्थस्य अप्रस्तुप्रशंसाबलेनैव आक्षेपाद् 'भवानिव' इत्यधिकम् || 5 अन्येऽपीति । यथोपमायां हीनपदत्वे -
1
प्रसरता कचिदापत्य निघ्नता ।
कचित्काले शुनेव सारंगकुलं त्वया भिन्नं द्विषां बलम् ॥
- अत्र शुनोपमानेन च कृतार्थ कदर्थनेऽनुचितार्थत्वम् । ' कचित्काळ ' इत्यत्र कचिदर्थस्य सामान्येनोपक्रान्तस्य काललक्षणेन विशेषेण योगः ॥ 10 कचित्तु विशिष्टस्यैवार्थस्योपक्रमः, यथा
शक्या भक्षुण्टसिति [?] बिसिनीकन्दवञ्चन्द्रपादाः ॥ निन्दायां प्रोत्साहने चानुचितार्थत्वं गुणः, यथा कुशलसखीजनवचनैरतिवाहितवासरा विनोदेन ।
निशि चण्डाल इवायं मारयति वियोगिनीश्चन्द्रः || तथा - विशन्तु वृष्णयः शीघ्रं रुद्रा इव महौजसः ॥ अवाचकमुपमायां यथा
पतिते पतंगमृगराजिनिज प्रतिबिम्बरोषित इवाम्बुनिधौ । अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ॥
- अत्र नागयूथेन धर्मिणा साम्यं तमसो वक्तुमतिमतं न तद्धर्मेण मलिन- 20 मात्रेण मृगपतौ पतिते तस्यैव निष्प्रतिपक्षतया स्वेच्छाविहारोपपत्तेः, न तद्वन्मलिनानां तमसां पतंगस्य मृगपतिरूपेण अवैयर्थ्यप्रसङ्गात् । न च तत्साम्यं सुन्दर - हारि - सदृश - संनिभाशब्दा इव मलिनादि - शब्दा वक्तुं शक्नुवन्तीति अवाचकत्वम् || रूपके आधिक्यं, यथा
निर्मोकमुक्तिमित्र गगनोरगस्य लीला ललाटिकामिव त्रिविष्टपविस्य ॥ अत्र रूपकेणैव साम्यस्य प्रतिपादितत्वाद् 'इव' शब्दोऽधिकः || अन्यस्यालंकारविषये ऽलंकारान्तरनिबन्धेऽपि अधिकपदत्वम् । श्लेषविषये उपमानं यथा
भैरवाचार्यस्तु दूरादेव दृष्ट्वा राजानं शशिनमिव जलविश्वचाल ॥
-
――
तत्र
15
25