________________
काव्यादर्शनामसंकेतसमेतः [१०८० उल्लास: ] न प्रतीतमित्यनुचितार्थत्वम् । निष्पेतुरास्यादिव तस्य दीप्ताः शरा धनुमण्डलमध्यभाजः । जाज्वल्यमाना इव वारिधारा दिनार्धमाजः परिवेषिणोऽर्कात् ॥५९७॥
अत्रापि ज्वलन्त्योऽम्बुधाराः सूर्यमण्डलानिष्पतन्त्यो न संभवन्तीत्युपनिबध्यमानोऽर्थोऽनौचित्यमेव पुष्णाति ।।
उत्प्रेक्षायामपि, संभावनं ध्रुवेवादय एव शब्दा वक्तुमुत्सहन्ते. न यथाशब्दोऽपि, केवलस्यास्य साधर्म्यमेव प्रतिपादयितुं पर्यातत्वात् , तस्य चास्यामविवक्षितत्वादिति तत्राशक्तिरस्यावाच कत्वं दोषः । यथा
उद्ययौ दीर्घिकागर्भान्मुकुलं मेचकोत्पलम् । नारीलोचनचातुर्यशङ्कासंकुचितं यथा ॥५९८॥
उत्प्रेक्षितमपि ताचिकेन रूपेण परिवर्जितत्वात्रिरुपाख्यप्रख्यम् , तत्समर्थनाय यदर्थान्तरन्यासस्योपादानं तदालेख्यमिव गगनतलेऽत्यन्तमसमीचीनमिति निर्विषयत्वमेतस्यानुचितार्थतैत्र दोषः । यथा -
15 दिवाकराद्राति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुचैः शिरैसी सतीव ॥५९९॥
अत्राचेतनस्य तमसो दिवाकरात्रास एव न संभवति कुत एवं तत्प्रयोजितमद्रिणा परित्राणम् । संभावितेन तु रूपेण प्रतिभासमानस्यास्य न काचिदनुपपत्तिरवतरतीति व्यर्थ एव तत्सम 20 र्थनीयां यत्नः।
साधारणविशेषणवशादेव समासोक्तिरनुक्तमप्युपमानविशेष
'परिवेषिणः । इति । अनेन धनुमण्डलमध्यभावत्वं प्रतिरूपितम् ॥ न संभ‘यन्तीति । न हि यन्न संभवति स्वयं तद् उपमानत्वेन स्यात् ।।
केवलस्येति, असमासस्थस्य । समासे तु असौ योग्यतायपि मतिपादयति । 25 तस्य चेति, साधर्म्यस्य ।। तत्रेति, संभावनवाचकत्वे ॥
व्यर्थ एवेति । उत्प्रेक्षामात्रमेवात्रोचितं, न त्वर्थान्तरोपन्यासस्तत्समर्थनार्थ इति तात्पर्यम् ।
समासोक्तिदोषानाइ - साधारणेति । 'मानः परिमाणममिमानश्च ।