________________
10
। १० ६. उल्लासः ] काव्यप्रकाशः ।
इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥५५४॥ ए एहि दाव सुन्दरि कण्णं दाऊण सुणसु वैयणिज्जम् । तुज्झ मुहेण किसोअरि चन्दो उमिज्जइ जणेण ॥५५५॥
अत्र मुखेनोपमीयमानस्य शशिनः स्वल्पतरगुणत्वादुपमित्यनिष्पत्त्या वैयणिजम्'-इति वचनीयपदाभिव्यङ्गया तिरस्कारः। कचित्तु निष्पन्नैवोपमितिक्रियानादरनिबन्धनम् । यथा- .
गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भग्न । • सन्तीदृशानि दिशि दिशि सरासु ननु नीलनलिनानि ॥५५६॥ इहोपमेयीकरणमेवोत्पलानामनादरः ।
अनयैव नीत्या यदसामान्यगुणयोगानोपमानभावमप्यनुभूतपूर्वि तस्य तत्कल्पनायामपि भवति प्रतीपमिति प्रत्येतव्यम् । यथाअहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृप्यः ।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥५५७॥ 15 यथासंख्यालंकारोऽपि । यथा वा ' प्रमदानां चक्षुरेव सहर्जमुडमालामण्डनं भार कुवलयदलदामानि (?)'। 'ए एहि 'इति । अत्र उपमानत्वेन प्रसिद्धस्य चन्द्रस्य निक
र्थमुपमेयत्वं कल्पितम् । मुखस्य चोपमानत्वं प्रासङ्गिकम् ।। उपमित्यनिष्पत्येति । औपम्यस्यानिष्पत्तिरभावश्चन्द्रस्य स्वल्पगुणत्वाव सादृश्यं नास्तीत्यर्थः ॥
'गर्वम् इति । भग्ने वराके नेत्रयुगमुपमानम् , उत्पलानि उपमेयानि । यथा 20 'मुखसदृशश्चन्द्रः' इत्यत्र चन्द्र उपमेयः ।। अत्र उत्कर्षभाजामुत्पलानामुपमेयत्वं तिरस्कारकारणमित्याह - इहोपमेयीति । 'ए एहि' इत्यत्र तु उपमित्यनिष्पत्तिरेव अनादरनिबन्धनमित्यर्थः ॥
अनयैवेति । अनेन अस्य बहुपकारं वैचित्र्य दर्शितम् । तेन उपमानस्य उपमेयताधानं विनानुकम्पनामात्रे प्रतिपादनमपि प्रतीपम् । यथा
वदनमिदं सममिन्दोः सुन्दरमपि ते कियच्चिरं न भवेत् ।
मलिनयति यत्कपोलौ लोचनसलिलं हि कज्जलबत् ॥ तत्कल्पनायामपीति । उपमानत्वकल्पनापि तिरस्कारहेतुरित्यर्थः ॥ 'अहम् ' इति । 'गुरुः प्रधानम् ' अत्र हालाहलं मारकं, दुर्जनवचांसि
25