SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ [ १० १० उल्लासः ] काव्यप्रकाशः । न तज्जलं यन्न मुचारुपानं न पङ्कजं तघदलीनषट्पदम् । न परपदोऽसौ कलगुधितो न यो न गुञ्जितं तन्न जहार यन्मनः ॥५५॥ पूर्वत्र पुराणां वराङ्गनास्तासामङ्गविशेषणमुखेन रूपं, तस्य विलासाः, तेषामप्यत्रमित्यमुना क्रमेण विशेषणं विधीयते। उत्तरत्र निषेधेऽप्येवमेव योज्यम् । यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः। स्मरणं यः पदार्थः केनचिदाकारेण नियतो या कदाचिदनुभूतोऽ. भूत, स कालान्तरे स्मृतिपतिबोधाधायिनि तत्समाने वस्तुनि दृष्टे सति, यत्तथैव स्मर्यते, तद्भवेत्स्मरणम् । उदाहरणम्- 10 निम्ननाभिविवरघु यदम्भः प्लावितं चलेंदृशां लहरीभिः । तद्भवैः कुहरुतैः सुरनार्यः स्मारिताः सुरतकण्ठरुतानाम् ॥५५१॥ यथा-वा करजुअगहिअजसोआथणमुहविणिवेसिआहरउडस्स । संभैरियपैश्चअनैस मह कण्हैस्स रोमञ्चम् ॥५५२॥ . भ्रान्तिमानन्यसंवित्तत्तुल्यदर्शने ॥३२॥ तदिति अन्येत्यपाकरणिकं निर्दिश्यते । तेन समानमर्थादिह यथा - ' न तद्' इति । अत्र जलादीनां मुचारुपङ्कजादीनि पराणि विशेषणानि निषेध्यत्वेन निबद्धानि ॥१२९॥ [५२॥] ___दृष्ट इति । दृशिरत्र उपलब्धिमात्रवचनः । तद्भवैः प्लाविताम्भोमवैः कुह- 20 रुतैः कुहकुहशब्दैः नाभ्यादिनिम्नदेशोत्यैः । स्मारिता इति घादिपाठे स्मरतेमानुबन्धत्वेऽपि न इस्वो व्यवस्थितविभाषितस्य वा' इत्यस्यानुवृत्तेः । सादृश्यं विना तु स्मृतिन स्मरणमलंकारः, यथा अत्रानुगोद मृगयानिवृत्तस्तरंगवातैरपनीतखेदः।। रहस्तदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ॥ 25 - अत्र च कर्तविशेषणानां स्मर्तव्यदशाभावित्वे स्मर्तव्यदशाभावित्वं न युक्तम् । प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिविषयः, यथा - 'कोपेऽपि कान्तं मुखम् ' इति । भ्रान्तिमति च उपमानावगतिरेव, न तु उपमेयस्येति ततोऽस्य भेदः ॥ [५३।।] ક૨
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy