________________
का व्य प्र का शः ।
प्रथम उल्लासः ।
ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत् परामृशति नियतिकृतनियमरहितां हूलादैकमयीमनन्यपरतन्त्राम् । नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥१॥
नियतिशक्त्या नियतरूपा, सुखदुःखमोहस्वभावा, परमाण्वाधुपादानकर्मादिसहकारिकारणपरतन्त्रा, षड्सा, न च हृचैव तैः, ' भट्टसोमेश्वर विरचितः काव्यादर्शनामा काव्यप्रकाशसंकेतः ॥ पदार्थकुमुदवातसमुन्मीलन चन्द्रिकाम् ।
वन्दे वाचं परिस्पन्दजगदानन्ददायिनीम् ॥
समुचितेति । यत् किल प्रस्तुतं वस्तु काव्यालंकरणं तदधिदैवतरूपा वक्ष्यमाणरामणीयकहृदयहारिणी वाणी ॥ अनन्यपरतन्त्रामिति । कवेरपेक्षया अन्यशब्दनिर्देशः । परमाण्वादिन्युपादानकारणानि, कर्मादीनि सहकारिकारणानि । यथाकुरस्य बीजमुपादानकारणं, क्षित्यातपसलिलादीनि सहकारिकारणानि ॥ षड्रसेति । मधुरादयः षट् शृङ्गारादयस्तु नव रसाः ॥ न चेति । विक्तादयो 15 हि न हृद्याः ॥ एतद्विलक्षणेति । वक्तीति वाक् शब्दः । उच्यत इति वागर्थः । उच्यतेऽनयेति वागभिधाव्यापारः । तत्र शब्दार्थयोर्वैचित्र्य प्रकारनिर्मितेरानन्त्यमभिधा । वैचित्र्यप्रकाराणामप्यनियतत्वं यतः सुकविभिरनुबध्यमाना भावा अचेतना अपि चेतनवच्चेतना अप्यचेतनवद् विवर्तन्ते । यदुक्तं
अपारे काव्यसंसारे कविरेकः प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥
--
जयति, परिच्छिन्नशक्तेः प्रजापतिनिर्मितेरप्युत्कर्षेण वर्तते । सर्वोत्कर्षे च वर्तमानो जयतिरकर्मको, नियतोत्कर्षे च सकर्मको द्विकर्मकश्च । यथा 'शत्रु जयति ' ' शतं कितवं जयती 'ति । अत एव ' तस्यै नमः, ' ' तां नमामी -
5
10.
20