________________
विभक्त्यर्थनिर्णये ।
त्यादाविवान्वयोपपत्तिः सम्भवतीति गुरुचरणादर्शितरौतिः । वस्तुतस्तु शब्देनार्थ इवार्थेनापि शब्द: स्मार्यते शब्दार्थयोरुभयोः सङ्केतसंबन्धेन संबन्धित्वाद् अत एवार्थं ज्ञात्वा अर्थेन तहाचकशब्दं कृत्वा वाक्यं प्रयुञ्जते प्रयोक्तारः तथा च यथा किं पचतिभवतीतिप्रश्न वधूपदर्शितकलायादौ कलायादिदर्शनेन कलायादिवाचक कलायादिपदं द्वितीयान्तं स्मृतवतः प्रष्टुः कलायं भवतोपचतोय्यन्वयबोधो भवति तथा भूशब्द स्वरूपार्थेन स्वरूपपरो भूशब्दः प्रथमातः स्मार्यते तेन तु भूशब्दस्वरूपोऽर्थः स्मार्यते तत्र भूशब्दे सङ्केतसंबन्धावच्छिन्नस्य स - ताssधेयत्वस्यान्यय इति न काऽप्यनुपपत्तिरिति यदि च वध पदर्शितक लायादौ कलायं पचतीति मानसोपनीतभानमेव तदा सत्ताऽऽधेयत्वस्य भूशब्दे मानसोपनीतभानमेवेति इयमेव रोतिः चान्वाचय इत्यादी - चति पाकं करोतीत्यादिविवरणे च बोध्येति । एवं वाचकत्वार्थी सप्तमीति तान्त्रिकवाक्ये वाचकत्वशब्देन सङ्केतसंबन्धावच्छिन्नाधेयत्वमेव व्यपदिश्यते अतो वाचकत्वस्य सप्तम्यर्थत्वे अनुशासनविरहेऽपि न चतिः । ढ़ाने बलिः काव्ये कालिदासस्तपसि धूर्जटिरयमित्यादौ बलिप्रभृतिपदानां वल्यादिसदृशे लक्षणा कर्तृतानिपकसंबन्धावच्छिन्नं दानाद्याधेयत्वम् इदंपदार्थे पुंस्यन्वेति विशिष्टान्वयबलाद्दानवैशिष्ट्यमपि पुंसि प्रतीयते तथा चवल्यादिसादृश्यं दानादिकं प्रतीयते अथ वा सप्तम्यन्तदानादिशब्दसमभिव्याहारबलाद्दानादिम्वरूपतादाम्येन वल्यादिपदार्थानामिदंपदार्थे पुंस्यन्वयः यथा
Aho! Shrutgyanam