________________
विभक्त्यर्थनिर्णये ।
३१९
न्वादित्यच गन्धप्रमाज्ञाप्यत्वविशिष्टस्य द्रव्यत्वस्य घट इव जलेऽपि सत्त्वात् निषेधप्रतीत्यनुपपत्तेः यदि च गनवप्रमाज्ञाप्यद्रवात्वस्य खज्ञानीयस्वनिष्ठ विधेयतानिरूपितोद्देश्यतया घटादावन्वयः तादृशोद्देश्यतासंबन्धावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावस्तादृशोदेश्यत्वावच्छिन्नप्रतियोगितावच्छेदकता कस्तद्ददन्योन्याभावो वा जले नया प्रत्याय्यत इत्यभ्युपेयते तदा हनियामक संबन्धस्य तादृशोद्देश्यत्वस्यात्यन्ताभाबीयप्रतियोगिताया अवच्छेदकत्वं भेदप्रतियोगिताऽवच्छेदकतायाश्चावच्छेदकत्वं स्वयमेवाभ्य ुपेतमिति साध्यपदस्य साध्यज्ञाने लक्षणाया युक्तत्वात् साध्यज्ञानस्य तादृशोद्देश्यत्वसंसर्गेण पचेऽभ्वयस्य समुचितत्वादित्यस्योक्तत्वादिति प्राचीनमतमेत्र श्रेयः पञ्चम्या ज्ञानज्ञाध्यत्वे लक्षणाकल्पनं वृथैवेति । पृथगादिशब्दयोगे प
म ज्ञापयति पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् इति सूत्रम् पृथग्विनानानाइत्येतैः शब्दैर्योगे तृतीयाविभक्तिर्भवति अन्यतरस्यां पञ्चमौत्यर्थकम् अन्यतरस्यामित्यनेन द्वितीयाऽपि समुच्चीयते पृथग्विनानानाशव्दानां वर्जनमत्यन्ताभावस्तद्दानन्योन्याभावस्तहांश्चार्थः न च पृथगादिशब्दानां पर्य्यायत्वे सूत्रे विनाऽर्थैरित्येव प्रयु ज्येतेतिवाच्य' हिरुग् देवदत्तस्येत्यच विनापर्यायस्य हिरुक्शब्दस्य योगे तृतीयाऽऽदिपसङ्गात्तद्दारणाय पृथगादिशब्दग्रहणात् हिरुक्शब्दस्यापि वर्जनमर्थः हिरुङनाना च वर्जने इत्यमरसिंहात् । वन्हिना वन्हहिं वा विना जलमित्यचात्यन्ताभावो विनाऽर्थः सविशेषण
Aho ! Shrutgyanam