________________
३७६
पञ्चमीविभक्तिविचारः ।
यतया वाऽन्वेति तथा च कार्तिक्यधिकरण समयध्व साधिकरणं यः समयस्तद्यापकस्य तद्दृत्तेर्वा सेवनस्य कर्म गङ्गेत्यन्त्रयबोधः एवमेव भवात्प्रभृति भवादारभ्य वा सेव्यो हरिरित्यादावन्वयो बोध्यः ।
ततः प्रभृति संक्रान्तावुपरागादिपर्वसु । त्रिपिण्डमाहरेच्छ्राइमे कोद्दिष्टं मृतानि ॥
-
इत्यादौ यदि प्रभृत्यर्थस्य निपातार्थ तया संक्रान्त्यादिकाले भेदान्वयो न युज्यते तदा संक्रान्त्यादिष्टत्तिश्राहप्रभृत्यर्थ स्थाधेय तयैवान्वय इति । अपपरिवहिरञ्चवः पञ्चम्या इति सूत्रेण समासविधानात् ज्ञापकात् बहि:शब्दयोगेऽपि पञ्चमौ साधुरिति ज्ञायते । नगराइहिराराम इत्यादावयवसंयुक्तोऽन्यावयवसंयुक्तो बहिः पदार्थ : पञ्चभ्या अवयवान्वयि समवायित्वमन्यत्वान्वयि प्रतियोगित्वं चार्थ : वहि: पदार्थ स्याधेयतया रामादावन्वयः । तथा च नगरसमवाव्यवयवसंयुक्तो यो नगरप्रतियोगिताकभेदवत्संबन्ध्यवयव संयुक्त तद्वृत्तिराराम इत्यन्वयबोधः काश्या बहिर्मिथिलेतिप्रयोगवारणायावयवसंयुक्तत्वमन्यावयवसंयुक्त विशेषणम् । अत एवानधिकरणं हि पदार्थ इत्यपि प्रत्यक्तं घटस्य घटानधिकरगतया "घटे जलं घटाहिरि "तिप्रयोगप्रसङ्गाच्च ज्ञापकसिद्धं न सर्वत्रेति करस्य करभो बहिरित्यादौ पठौ अत्र पृष्ठावयवमुक्तोऽवयवो बहिरर्थः तत्र षष्ट्यर्थसंबन्धस्यान्वय इति पञ्चमीविधायक योगार्थ केषु चिच्छव्देषु कर्मप्रवचनीयसंज्ञां विधत्ते । अपपरी वर्जने इति सूत्रम् । अपपरिशब्दौ वर्जनेऽथे कर्मप्रवचनीयसंज्ञौ भवत इत्य
Aho! Shrutgyanam
-