________________
"विभत्त्यर्थनिर्णये।
३७१ न् । न च तक्रिया भेदप्रतियोगितावच्छेदिकति बाऽयं तत्तक्रियादेभंदप्रतियोगितावच्छेदकत्वेऽपि धातुना ताद्रूप्ये णानुपस्थापनोत् तत्रान्वयासम्भवात् भेदप्रतियोगितावच्छेदकमपसरणमिति सामान्यतो बोधस्य स्वस्मादपसरत इत्यादावपि सम्भावितत्वादित्यादियुक्तर्गगाग्रन्थादौ युक्त्यन्तरस्य पृथकत्वसाधकस्यानुसन्धानेन पृ. थक्त्वं साधनौयमिति । प्रकृते तु पृथक्त्वानुपपत्तिः सूत्रे शब्दस्य पृथक्त्वार्थकत्वकल्पने युज्यते नैव यतो हि सिद्धमय शब्दोऽभिधते नहि शब्देनार्थसिद्धिरन्यथा खपुष्यादिशब्दादतिरिक्तवस्तुसिड्यापत्तेरिति नजोऽभावत्व प्रतिनिमितं न तु भेदत्व मनुयोगिवाचकपदे प्रथमान्ते सति प्रथमान्तार्थस्य तादात्म्यावच्छिन्नप्रतियोगितया नञर्थेऽभावे अ. म्बयोपगमाहटो न पट इत्यादौ घटादिषु घटादिभेदस्यार्थतः प्रतीतिसम्भवादिति। नयोगे पञ्चम्य प्रसक्तः घटो न घटादित्यादिको न प्रयोग इत्यपि वदन्ति । घटः पटात्पृथगित्यादौ तु पञ्चमौ सूत्वान्तरणति वक्ष्यते टतेयोगे यथा कृष्णाहते व्रजो विरस इत्यादौ अत्र पचम्या: प्रतियोगित्वमर्थः तत्र प्रकत्यर्थस्य पूर्ववदन्वयः टते शब्दार्थोऽत्यन्ताभावस्तत्र प्रतियोगित्वस्य पूर्ववदन्वयः विरसस्तु प्रोत्यजनक तथा च कृष्णत्तिकपणत्वावच्छिनप्रतियोगिताकात्यन्ताभाववान् वजः प्रोत्यजनकाभिन्न इत्यन्वयबोधः । ऋतेशब्दार्थो भेदोऽपि यथा कृष्णाढते जनो गोवर्धनासह इत्यादी व चिदत्यन्ताभाववान् भेदवांश्च ऋतेशब्दार्थ: यथा रामादृते न लक्ष्मण इत्यत्रात्यन्ताभाववान् रोमाइते भक्तिः प्रोतिर्वा न लक्ष्मणस्थे
Aho ! Shrutgyanam