________________
२९०
चतुर्थीविभक्तिविचारः ।
सूया व्यज्यत इत्युक्तं तब विधेनैसर्गिक निद्रादरिद्रौकरयो गणे शाठ्य हेतुकत्वस्वरूप दोषत्वं स्वप्नसमागमविच्छेदेन विहस्तेन कामिना समारोपितमिति गुणे दोषारामरूपोऽसूया भावोऽभिव्यज्यत इति संप्रदायः । वस्तुतस्तु निविधौ विधित्वे वा शठतादात्म्यस्य शठत्व - तादात्म्यस्य वाऽऽरोपस्तादृशेन कामिना कृत इत्यनिन्दो दोषारोपरूपाऽसूया व्यज्यत इति दोषास्तु निन्दाप्रयोजका बोध्या: । एतेन दुःखाय नरकाय वा कुप्यतीति प्रयोगापत्तिः दुःखविषय कद्देषस्य सत्त्वात् बृहस्पतिरध्या• पयन् दैत्येभ्यो द्रुह्यतौति प्रयोगानापत्तिः अध्ययनस्य दैत्यसमवेतद्द षाविषयत्वात् कूपे पततेऽन्धायेर्ण्यतीति प्रयोगापत्तिरन्धक र्तक कूपपतनगोचरद्वेषस्य निवारके सस्वादिति परास्तम् । कुप्यादिधातूनां चतुर्थ्याश्च दशितार्थकतया अतिप्रसङ्गाप्रसङ्गयोरभावात् कुप्यादीनां दर्शि- तार्थकत्वे कर्मणि द्वितीया प्रसक्ता निरवकाशया संप्रदानसंज्ञया असाधुत्वज्ञापिकया बाध्यते सूत्रे यं प्रति कोप इत्यत्र कोपोपादानं न चतुर्थ्यर्थता सूचनाय तथा सति कुप्यादिप्रयोगानुपपत्तेः धात्वर्थे कोपे चतुर्थ्यर्थको पामन्वयात् किं तु स्वरूपकथनं भवतु वा प्रतीत्युपादानात् विषयत्वं कोपस्य चतुथ्यो अर्थ: देवदत्ताय कुध्यतीत्यत्र कोपार्थक धातुयोगे विषयित्वं चतुर्थ्यर्थः अनिष्टानुकूलव्यापारगोचरद्द षे कोपेऽन्वेति देवदत्तादेर्यज्ञदत्तानिष्टानुकूलव्यापारक त्वमर्थादवगम्यते स्वविषय कयज्ञदतौयई ष प्रयोजकत्वात् देवदत्ताय दुखतोत्यव चतुर्थ्या द्वेषमाचं कोपोऽर्थस्तव विषयितया प्रकृत्यर्थस्यान्वय: अ
Aho ! Shrutgyanam
·