________________
રસ્ટ
चतुर्थीविभक्तिविचारः। वदत्तसमवेतक्रियागोचरहे षाश्रयत्वं वाक्यार्थः यत्र तु क्रिया फलविधयेयंतिनोच्यते तत्र क्रियाविषये कर्मणि द्वितीयैव प्रमाणं यथा भार्यामौयति मैनामन्यो द्राक्षौदिति भार्याविषयकमन्यकतकदर्शनं न स. हत इति तदर्थः असूयतेरसयाऽथ: सा च परगुणे दोपारोपः देवदत्तीयासयतीत्यत्र चतुथ्योः संबन्धित्वं ममवेतत्वं वाऽर्थः तथा च देवदत्तसंबन्धिगुणं दोषत्वेनारोपयतीत्यर्थः वादिने असूयतीत्यत्र वादिसमवेतज्ञानं भमत्वेन ख्यापयतीत्यर्थ इति संप्रदायः । वस्तुतस्तु अध्यत्यादेः क्रोधोऽर्थः स चामर्ष स्तच्चासहिष्णुत्वम् अत एव क्रोधोऽमर्षः इति काशिका कोपक्रोधामर्षरोषेत्याद्यमरोऽपि असहिष्णुत्वं च स्वानिष्टानुकूलपरक्रियागोचरो द्वेषः चतुर्थ्यास्तु क्रियान्वय्याधेयत्वमर्थ: देवदत्ताय ऋध्यति यजदत्त इत्यत्र स्वानिष्टानुकूलदेवदत्तत्तिक्रियागोचर. हषाश्रयो यज्ञदत्त इत्यन्वयबोधः । अनिष्टानुकूलायाशिष्यगताया पुत्वगतायाश्च क्रियाया इषसम्भवात् अनि ष्टानुकूलव्यापारो द्रुहरर्थः अत एव द्रोहोऽपकार इति काशिका चतुर्थ्यास्त्वनिष्टान्वय्याधेयत्वमर्थः अनिष्टं च दुःखं सुखाभावश्च देवदत्ताय द्रुद्यति यज्ञदत्त इत्यव देवदत्तत्तिदुःखानुकूलव्यापारानुकूलकृतिमान् यजदत्त इत्यन्वयबोधः सपत्यै द्धति स्त्रीत्यत्र सपत्नीत्तिसुखाभावानुकूलव्यापारानुकूलकृतिमती स्त्रीन्यन्वयबोधः उत्कर्षगोचरो हष ईय॑तेरर्थश्चतुर्थ्याः उत्कर्षान्वय्याधेयत्वमर्थः कर्णाययति फाल्गुन इत्यत्र कर्णर. त्युत्कर्षगोचरद्वेषाश्रयः फाल्गुन इत्यन्वयबोधः । यत्र तु ।
Aho! Shrutgyanam