________________
२६२ तृतीयाविभक्तिविचारः। प्रसिद्धतया तदभावबोधासम्भवात् वृत्तिनियामकस्य तथात्वे तु तृतीयार्थे हेतुत्वे आधेयतया जन्यत्वे निरूपकतया संवन्धेन प्रकृत्यर्थाभावस्य नञा वोधनसम्मवादन्वयवोधोपपत्तिः गगनं न पारिमाण्डल्येनेत्यादिवाक्यमयोग्यमेव योग्यं चेत्तदा नजा देधा ऽभावो बोध्यते अत: प्रकृत्यर्थाभावविशिष्टजन्य त्वस्याभावो गगने प्रतीयते गगनमन्धो न पश्यतीत्यत्र द्वेधा नजथबोधवत् वस्तुतस्तु हेताविति सूत्र हेतुपदेन हेतुत्वस्य प्रतिपादनाद् हेतुस्वं तृतीयाऽर्थः न हि हेतुपदस्य जाप्यं ज्ञापकं वा शक्यं येन तत्त्वं प्रतीयेत सूत्र लक्षणाकल्पने प्रयोजनविरहः कोशादिज्ञापकाभावेन रूढिविरहश्च परिपन्यो धूमेन वनिहरित्यादिप्रयोगो न दृत्तिग्रन्थादौ दृष्टचर इति काशिकायां धनेन कुलं कन्यया शोकः विद्यया यश इत्युदाहृतं तत्र कुलस्य सन्तानस्य हेतुत्वं धनस्य दारपरिग्रहादिप्रयोजकतया कन्यायोः शोकहेतुत्वं विश्लेषप्रयोजकदानप्रयोजकतया विद्याया यशोहेतुत्वमधापनादिप्रयोजकतया बोध्यमिति फलमपोह हेतुः फलं कार्य तथा च ततौयार्थ हेतुत्वे यथाऽऽधेयतया तथा निरूपकतथा ऽपि प्रकृत्यर्थस्यान्वयः कार्यस्य हेतुतानिरूपकत्वात् अथ वा तृतीयार्थे जन्यत्वे यथा निरूपकतया तथाऽधेियतयाऽपि प्रकृत्यर्थम्यान्वय: कार्यस्याधिकरणत्वात् फलं हेतुर्यथाऽध्ययनेन वसतीत्यनाध्ययननिरूपितहेतुताकोऽधायनजन्यतानिरूपको वा बासो वाक्यार्थः । “अलं महीपाल तव श्रमेणे" त्यत्वे फलोद्देश्यककृतिविषयः फलाजनकोऽलंपदार्थः निष्फलस्य कृतिविषयस्य श्रमजनकत्वं
Aho! Shrutgyanam