________________
विभत्त्यर्थनिर्णये। दिजातीनां राशितव्यागभावध्वंसानां च कल्पनापत्तेरनतिरिक्तत्वाभ्युपगमेन प्रत्याद्यपपत्तेरेको महानिति प्रतीतिरौपाधिकोत्यन्यत्र विस्तरः । के चित्तु एकजातौयमवनमनं प्रति बिद्रोणखरूपगुरुत्वविशेषस्य तदानयारम्भकपरमाणुसमसंख्यकपरमाणुगुरुत्वानां च वैकल्पिको कारणता तथा च तावत्परमाणुगुरुत् विद्रोणपदार्थः तृतीयार्थो वैशिष्ट्य सामानाधिकरण्यं वा वैशिट्यं तु स्वाश्रयारभ्यत्वघटितरपरम्पराखरूपं धान्येषु सामानाधिकरण्यं तु दर्शितपरम्परासंबन्धावच्छिन्नं सत्वेइन्वेतौति वदन्ति । तदपि न विचारसहम् । परमाणुगुरुत्वानामेवावनमनं प्रति हेतुत्वात् अवयविगुरुत्वस्य हेतुत्वे पलमितसर्षपप्रयुक्तावनमनतः तथाविधलोहपिण्डप्रयुक्तावनमनस्य प्रकर्ष प्रसङ्गात् पतनप्रकर्षप्रयोजकत्वेनावयविगुरुत्वस्याभ्युपगमात् कारणोत्कर्षस्य कार्योत्कर्षप्रयोजकत्वादित्यन्यत्र विस्तरः । वस्तुतस्तु । ।
जालान्तरगते भानौ सूक्ष्मं यदृश्यते रजः । का प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते॥
इत्यादिना चसरेवादिघटितं माषसुवर्णनिष्कादिमानं मनुनीतं निष्कादिघटितं च द्रोणादिमानमेवमाढकमितद्रव्यचतुष्टयस्यारम्भकपरमाणुसमसंख्यकपरमाणुगुरुत्वानि द्रोणस्तद्विगुणगुरुत्वानि हिद्रोणस्तेषां गुरुखाना खाश्रयपरमाणुभि: परम्परयाऽऽरयमाणत्वं संबयो धान्यादौ न च तावत्संख्यका: परमाणवः परमाणुत्तिस्तादृशौ संख्या वा द्रोणपदार्थोऽस्तु धान्यादावुभयस्य परम्परासंबन्धो भवतीति वाच्यं तावत्परमाणुनां पर
Aho! Shrutgyanam