________________
२१४
तृतीयाविभक्तिविचारः ।
देशव्यापारस्य जन्यत्व ेन संसर्गेण धात्वर्थगमनेऽन्वयात्करणे तृतीयेति वाच्यं करणत्वविवक्षायामिष्टत्वात् श्रवित्रक्षणे तु आधारस्याधिकरणसंज्ञया तत्कार्येण वा करणसंज्ञायास्तत्कार्यस्य वा वाधात् करणाधारकर्मणामिति भाष्यात् । न चैवं तृतीयार्थाधिकरणत्वस्य धावर्थेऽन्वयोपगमात् कारकत्वापत्तिरिति वाच्यं सर्वत्र धात्वर्थान्वयविरहात् नामार्थे नाप्यन्वयात् । अत एव शाखया कपिसंयोगी वृक्ष इत्यत्र श्वेतः खुरविषाणाभ्यामित्यत्र च तृतीयार्थाधेयत्वस्य शाखाविशेषितस्य कपिसंयोगे खुरविषाणविशेषितस्य श्वेतरूपे सविशेषणे हौति न्यायेनान्वयात् । रजतत्वेन पुरोवर्त्तिनं जानातौच्छति करोति द्वेष्टित्यादौ प्रकारत्वं तृतीयार्थः तच्च धात्वफले द्वितीयार्थे वा विशेष्यत्वे निरूपकता संसर्गेणान्वेतौति वदन्ति । तव घट इति घटघटत्वसमवायान् जानातीत्यादिप्रयोगेण विशेष्यत्वस्य न धात्वर्थत्वं न वा हितौयार्थत्व' सम्भवति घट इति नियतार्थस्य धात्वर्थेज्ञानेऽभेदान्त्रयेन तादृशज्ञानविशेष्यत्वस्य घटत्वसमवाययोरसम्भवात् विषयत्वं फलतया धात्वर्थो न तुहितौयार्थो भगवान् जानातीत्यादावनुपपत्तेरित्यस्य प्रागावेदितत्वात् तथा च तृतौयार्थः प्रकारत्व रजतत्वादिप्रकृत्यर्थं विशेषितं धात्वर्थे फले विषयत्व व्यापारे ज्ञानादौ वा निरूपकत्वं न प्रतियोगित्व ेन वा संसर्गेणान्वेति रजतत्वप्रकारता निरूपित पुरोवर्तिविशेष्यताकत्वमाक्षेपेण परिशेषेण मनसा वा मानान्तरेणावगम्य. ते विशेष्यत्वस्य द्वितौयार्थं तापचेऽपि तत्र तृतीयार्थप्र
Aho ! Shrutgyanam