________________
विभत्त्यर्थनिर्णये। ल्ययतीति प्रयोगः तत्र वर्णेतरायत्तित्वेन विशेषितोत्यत्तिापारश्च जपतेरथ: न च वर्णोत्पत्तिः फलविधयाऽर्थ इति वाच्यं तथा सति धात्वर्थान्तर्भूतकर्मकत्वात् शब्दायतिवज् जल्पतेरकर्मकत्वापत्तेः वर्णान् पर्दै वो जल्पतीतिप्रयोगानापत्तेः अथ वा उत्पत्तिः फलतया विकृतस्पृष्टेषत्स्पृष्टाः प्रयत्नास्ताद्रूप्येण व्यापारतया जल्पतेरर्थ: जल्पतिवत् ब्रु विवचिवदिदिप्रभृतयो बोध्याः पुत्रम नराणि जल्पयति पितेत्यत्र पुत्रपदोत्तरहितीयाया विस्तादिव्यापारान्वयिसमवेतत्वमर्थः णिच: शिक्षणाजादिः प्रयोजकव्यापारोऽर्थः एवमक्षरनिष्ठोत्पत्यनुकूलस्य पुत्त्रसमवेतवितादिव्यापारस्यानुकूलो यः शिक्षणादिस्तदात्रयः पितेति वाक्यार्थदोधः अत्र शब्दकर्मकतया जल्पतेः कर्तरि कर्मसंज्ञासिद्धौ वार्त्तिके जल्पतिग्रहणमनर्थकमिति ध्येयम् । एवं यजमानं सूक्तमनुवाकं वा श्रावयतीत्यत्व यजमानपदोत्तरहितीयाया: श्रावणप्रत्यक्षान्वयिसमवेतत्वमर्थ: अत्रापि शृणोते: शब्दकर्मकतया पृथग्यहणमनर्थकमिति ध्येयम् । न च शृणोते: श्रावणत्वमिव शब्दत्वमपि प्रतिनिमित्तं तथा च शिष्यं धर्म थावयतोति प्रयोगोपपत्तये वः पृथग्ग्रहणमिति वाच्यम् । शब्दकर्मेत्यत्र कर्मपदस्थ कारकपरतया शब्दकारककार्थवाचिधातोरुपग्रहात् शाब्दबोधस्य शब्दकरगकतया शृणोतेस्तथात्वात् शाब्दबोधार्थकस्य शृणोतेर्बुध्यर्थकतयोपग्रहसम्भवाच्च न च सूत्रे बुद्धिपदेन जानसामान्यवाचिनामेवोपग्रहो न तु ज्ञानविशेषवाचिनां दृशेश्चेति पृथगनुशासनविरोधादिति वाच्यम् । ज्ञानातिरितार्थेऽपि प्र
Aho! Shrutgyanam