________________
ROID विभक्त्यर्थनिर्णये। तं वा एवं शाखा भूमि कुष्यते कष्टा वा यथा पा शाखा कृष्यते कृष्टा वा एवं कटो वोरणं क्रियते कृतो वा यथा वा कटः क्रियते कृतो वा तदुत्ताम् ।
प्रधानकर्मण्याख्येये लादीनाहि कर्मणाम् ।
अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः ॥ इति प्रधानफलवत् प्रधानकर्मगुणफलवदप्रधानकर्म बोध्यम् । तदिदं कर्म वाक्यपदीये प्रोक्तम् ।
निर्वत्यै च विकायं च प्राप्यं चेति विधा मतम् । तच्चेप्सिततमं कर्म चतुर्धाऽन्यत्तु कल्पितम् ॥ औदासीन्येन यत्प्राप्यं यच्च कतुरनीप्सितम् ।। संतान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥ निर्वयविकार्यप्राप्यलक्षणं हरिणोतं पूर्वमेवप्रदर्शितम औदासीन्येन प्राप्यं ग्राम गच्छंस्तुणं स्पृशतीत्यादौ टगादि अनीप्सितं तु रथ्यां गच्छन् चाण्डालं इष्टशतीत्यादी चाण्डालादि संज्ञान्तरैरनाख्यातं तु गां पयो दोग्धि इत्यादावकथितमित्यनेन कर्म गवादि अन्यपूवकं तु करमभिध्यतीत्यादौ संप्रदानसंज्ञाबाधकानुशासनेन कर्म क्र रादि तदनुशासनं तु वक्ष्यते मासमास्ते इत्यादी मासादेः कर्मत्वोपपत्तये "अकर्मकधातुभिर्योगे देश: कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञकइति वाच्यमि"ति वार्तिकम् । अवा कर्मकधातवस्तु सकर्मकलक्षणे प्रोक्ताः देश: देशत्वावान्तरधर्मवान् कुरुपचालादिः न तु सामान्यतो देश: न वा ग्रामवादिना ग्रामादिः तेन कुरून् खपिति तिष्ठति वेति प्रयोगः न तु देशं ग्रामं वा खपिति तिष्ठति वेति प्रयोगः । कालः
Aho! Shrutgyanam