________________
द्वितीयाविभक्तिविचारः। सर्वपक्षेऽनुपपत्तेराधेयत्वस्य हितोयार्थत्वं युज्यत इति चेत् एवमेवैतत् अत एव परसमवेतधात्वर्थफलशालित्वं कर्मत्वमिति तान्त्रिका वदन्ति । तेषामयमाशयः । द्वितीयाकाङ्गाप्रयोजकतावच्छेदकधर्मवत्वं सकर्मकत्वं तादृशो धर्मों नानाविधः । पचिगम्यादौनामधिकरणाविशेषितफलव्यापारोभयवाचकत्वं तथा शब्दायल्यादेरधिकरणविशेषितफलवाचकत्वान्न द्वितीयाऽऽकाका रमत्यादेईितीयार्थभेदान्वययोग्यार्थकत्वविरहान्न हितोयाऽऽकाङ्क्षा यत्यादौनां व्यापारमानवाचकतया फलावाचकत्वान्न द्वितीयाऽऽकाङ्क्षा शौस्थासामधिपूर्वकत्वं तथा वसस्तु उपान्वध्याउन्यतमपूर्वकत्वं तथा अधिकरणविशेषितफलवाचकानां शब्दायत्यादीनां हितौयार्थभेदान्वयायोग्यार्थकानां रमत्यादीनां फलावाचकानां यत्यादीनां च कालादिवाचकशब्दोत्तरहितीयाभिन्नहितीयानिराकोसत्वस्वरूपाकर्मकत्वेन व्यवत्रियमाणानां णिजन्तत्वं तथा न तु शाब्दिकोक्तं सकर्मकत्वमधिशीङादावकर्मकणिजन्ते चाव्याप्तेः । एवं धाताकावहितौयार्थत्वं कर्मत्वं तदपि नानाविधं अधिशौस्थासादौनामाधारत्वम् अकर्मकणिजन्तानामणिजन्तखकर्टवं पचिगम्यादीनां परसमवेतधात्वर्थफलशालित्वम् इदं कट त्वं च गतिबुध्यशनार्थकानां शब्दकर्मकाणां च णिजन्तानां तत्र धात्वर्थफलस्य धातुना लाभात् परसम
तत्वं द्वितीयार्थः तंत्रापि परत्वं भेदः समवेतत्वमाधेयत्वं खण्ड शो द्वितीयार्थः तत्र प्रातिपदिकार्थ आधेयत्वे निरूपितत्वसंसर्गेण भेदे च तत्तद्यक्तित्वावच्छिन्न