________________
(५१०) वसंतराजशाकुने-एकोनविंशतितमो वर्गः । तरंगिणीरोधसि सौम्यरूपांस्त्रीन्पंच वा मुञ्चति या निनादान् ॥ शिवा शिवां तां नृपतित्वदात्री वन्देत देवीमभिवं दनीयाम् ॥ ७८॥ श्मशानभूमौ दिनमध्यभागे मध्ये रजन्याश्च गृहाग्रदेशे ॥ या रौति तस्यै बलिमर्घयुक्तं भक्त्या प्रदद्याद्यदि भद्रमिच्छेत् ॥ ७९ ॥ सर्वेषु कार्येषु समुद्यतेषु बलिः शिवाया विनिवेदनीयः ॥ गृह्णाति यस्मिन्विषयेऽभ्यु पेत्य देवी बलिं यच्छति तत्र सिद्धिम् ॥ ८० ॥ इति वसंतराजशाकुने शिवारुते स्थानस्थितप्रकरणम् ॥६॥ कथ्यते बलिविधानमिदानी शाकुनागममतेन शिवायाः ॥ दिव्यमंत्रवलिबाधितदोषं साधिताखिलसमुद्यतकार्यम् ॥ ८ ॥
॥टीका ॥ तरंगिणीति ॥ तरंगिणीरोधसि नदीतटे या शिवा सौम्यरूपांस्त्रीपंच नादान्मुंचति तां शिवां देवीमभिवंदनीयां नृपतित्वदात्री वंदेत ॥ ७८ ॥ श्मशानेति ॥ श्मशानभूमौ दिनमध्यभागे मध्याह्ने तथा रजन्याश्च मध्ये गृहाग्रदेशे गृहस्य पुरः प्रदेशे या शिवा रौति यदि भद्रं कल्याणमिच्छेत्तदा तस्यै बलिमयुक्तं भक्त्या प्रदद्यात् ॥ ७९ ॥ सर्वेष्विति।समुद्यतेषु सर्वेषु कार्येषु शिवायाः बलिनिवेदनीयः यस्मिन्विषये देवी अभ्युपेत्य आगत्य बलिं गृह्णाति तत्र सिद्धि जल्पति ॥ ८०॥
इति वसंतराजशाकुने टीकायां शिवारुते स्थानस्थितप्रकरणं पंचमम् ॥५॥ कथ्यते इति ॥ इदानीं शाकुनागममतेन शाकुनसिद्धांतप्रोक्तेन शिवायाः ब
॥भाषा॥ तरंगिणीति ॥ नदीके तटके ऊपर जो शिवा तीन वा पांच सौम्य शब्द बोले तो नमस्कार करबेके योग्य राजापनेकी करबेवाली ऐसी वो शिवा देवी ताय नमस्कार करै ।। ७८ ॥ श्मशानेति ॥ श्मशानमें मध्याह्नमें अर्धरात्रिमें घरके अगाडी इतनी जगहमें शृगाली बोले तो जो प्राणी कल्याणकी इच्छा करे तो वाके अर्थबलिदान अर्घसहित भक्तिपूर्वक देवै ॥ ७९ ॥ सर्वेष्विति ॥ संपूर्ण कार्यनमें शिवाकी बलि करै जा कार्यमें शिवा देवी आय करके बलिदान ग्रहण करै ता कार्यमें सिद्धि कहै है ये जाननो ॥ ८ ॥
इति वसंतराजभाषाटीकायां शिवारते स्थानस्थितप्रकरणं पंचमम् ॥ ५ ॥ कथ्यते इति ॥ अब शकुनशास्त्रके मत करके शिवा नाम शृगालीको बलिविधान
Aho! Shrutgyanam