________________
. शिवारुते स्थानस्थितप्रकरणम्। (५०७) करोति फेफे इति सर्वदिक्षु यदा तदा स्थानविघातयुद्धे ॥ शिवा विधत्ते शुभिता त्वसंख्यात्रौद्रान्स्वरान्मुंचति चेदुपेक्ष्या ॥६६॥ निरंतरं रौति च सर्वदिक्षु समंदकारुण्यखातुरा चेत् ॥ अपत्यमोहेन युता शृगाली त्यक्तस्पृहा सा कथितेह तज्ज्ञैः॥ ६७॥ स्थित्वा प्रदीप्ते ककुभो विभागे ज्वालामुखी फेत्कुरुतेऽतिरौद्रम् ॥ ग्रामस्य पार्श्वे प्रकरोति नाशं तस्याथवा तिष्ठति यश्च मध्ये ॥६८॥ ग्रामस्य मध्यं समवाप्य यस्य ज्वालामुखी मुंचति फेत्कृतानि ॥ स शून्यतां गच्छति निश्चये लोकस्य वा स्यादसुखं प्रभूतम् ॥ ६९॥
॥ टीका॥ पदिश्यते ॥ ६५॥ करोतीति यदा सर्वदिक्षु फेफे इति करोति तदा शिवा स्थान विघातयुद्धे विधत्ते।क्षुभिता तु शिवा असंख्यान रौद्रान्भयावहान्स्वरान्मुचति चेत्तदा उपेक्ष्या उपेक्षणीया ॥ ६६ ॥ निरंतरमिति ॥ या अपत्यमोहेन शृगाली समदकारुण्यरवातुरा मंदः मंदतरः कारुण्योदयोत्पादकः ताभ्यां सहिताभ्यां रवः शब्दो यस्याः सा आतुरा च निरंतरं सर्वदिक्षु सा इह तज्ज्ञैः शिवारुतज्ञैः त्यक्तस्पृहा कथिता ॥ ६७ ॥ स्थित्वेति ॥ यस्य ग्रामस्य पार्श्वे स्थित्वा प्रदीप्ते ककुभो विभागे ज्वालामुखी यदि फेत्कृतानि मुंचति अतिरौद्रं फेत्कुरुते इति वातदा तस्य ग्रामस्य नाशं करोति । अथवा ग्रामस्य मध्ये यस्तिष्ठति तस्य नाशं करोतीत्यर्थः॥६॥ ग्रामस्येति ॥ यस्य ग्रामस्य मध्यं समवाप्य ज्वालामुखी फेत्कृतानि मुंचति निश्चयेन
॥भाषा ॥ शुभ शकुन कहेहैं ॥ १५ ॥ करोतीति ॥ जो सर्व दिशानमें फेफे ये शब्द करे तो शृगाली स्थानके नाशकर्ता युद्धकू करै जो क्रोधवान् होय करके शृगाली असंख्यात भयके करबेवाले शब्द बोले तो कार्य छोडबेके योग्य है ॥ १६ ॥ निरंतरमिति ॥ जो संतानके मोहकरके शृगाली मंद और कारुण्य प्रकट करै ऐसो और आतुर होय सर्व दिशानमें शब्द बोले तो शिवाके शब्दके तत्त्वकू जानबेवालेनने वाळू वांछारहित कहीहै ॥६७॥ स्थित्वेति ॥ जा ग्रामके पसवाडेनमें स्थित होयकर दीप्तदिशामें शृगाली फे शब्दकरै वा अति रौद्र फे शब्दकू बोले तो वा ग्रामको नाश करै अथवा ग्रामके मध्यमें जो स्थित होय वाको नाश करे ॥ ६८ ॥ ग्रामस्येति ॥ जा प्रामके मध्यमें आय करके शृगाली
Aho! Shrutgyanam