________________
(४७८) वसंतराजशाकुने-अष्टादशो वर्गः। वामोऽपि भूत्वा भषणो विलोलन्भंगं रणे यच्छति चार्थनाशम् ।। क्रुद्धोऽभिधावन्पुरतोऽभिधत्ते रक्तप्रपातं वधबंधने च॥ १८९ ॥ यं वीक्षते काष्ठदृषन्मुखः श्वा तस्य ध्रुवं स्यादचिरेण युद्धम् ॥ क्रीडंत्ययुग्माः प्रगुणे प्रयाणे युद्धाय यक्षा दिनसप्तकेन ॥ १९ ॥ प्रस्थातुरग्रे यदि सारमेयः कायं सपुच्छश्रवणं धुनोति ॥ध्रुवं तदा दत्तदृढप्रहारा हरंति चौरा द्रविणं क्षणेन ॥ १९१॥ युग्मम् ॥ प्लुते तरी कंटकभाजि शुष्के भग्ने विशीर्णे पतिते च वृक्षे॥अवस्करास्थीधनशृंगभस्मश्मशानवल्लीतुषकपरेषु ॥ १९२॥
॥ टीका ॥
कृत्वा प्रयाति तदाऽभीष्टाशनलब्धये अभीष्टमिच्छितं यदशनं भोजनं तस्य लब्धिः प्राप्तिः तस्यै भवति ॥ १८८॥ वाम इति ॥ भषणः वामोऽपि भूत्वा विलोलन्पूर्णव्रणे भंगं कार्यनाशं यच्छति । तथा क्रुद्धः पुरतः अग्रेभिधाववक्तप्रपातं रुधिरनावं वधबंधने वा अभिधत्ते ॥ १८९ ॥ यमिति ॥ काष्ठदृषन्मुखः काष्ठं दारु दृषत्प्रस्तरः अनयोईदः । एतौ मुखे यस्य स तथोक्तः श्वा यं वीक्षते तस्य अचिरेण ध्रुवं युद्धं स्यात् । तथा प्रगुणे प्रारब्धे प्रयाणे अयुग्माःत्रिपंचसप्तसंख्याकाः यक्षाः क्रीडंति तदा दिनसप्तकेन युद्धाय स्युः॥ १९० ॥ प्रस्थातुरिति ॥ यदि सारमेयः प्रस्थातुः गंतुरग्रे पुरस्तात्सपुच्छश्रवणं पुच्छश्रवणाभ्यां सहितं कायं शरीरं धुनोति तदा चौरा दत्तदृष्टप्रहाराःक्षणेन द्रविणं धनं हरति ।। १९१॥ प्लते इति॥
॥भाषा ॥ ल्यो जाय तो वांछित भोजनकी प्राप्तिके अर्थ जाननो ॥ १८८ ॥ वाम इति ॥ श्वान बायों करके घूमतो होय तो संग्राममें भंग करे. और. कार्यको नाश करै. और क्रोधवान् होय अगाडी दौड तो रुधिरको स्राव वधबंधन करै ॥ १८९ ॥ यमिति ॥ काष्ठ पाषाण मुखमें जाको ऐसो वान जा पुरुषकू देखे ता पुरुष· शीघ्रही निश्चय युद्ध होय. और. गमनमें तीन पांच सात ऐसे ऊना संख्या जिनकी वे श्वान क्रीडा करें तो सात दिनमें युद्ध करावें ॥ १९० ॥ प्रस्थातुरिति ॥ जो श्वान गमन कर्ता: पुरुषके अगाडी पूंछ कान शरीर इनें हलाव तो चौर प्रहार करके क्षणमात्रमें धन हर ले जाय ॥ १९१ ॥ प्लुते इति ॥ जलमें डूबो वृक्ष वा अग्नि करके प्रज्ज्वलित कटुवो वृक्ष और काटनको वृक्ष सूखो वृक्ष भन्न
- Aho ! Shrutgyanam