________________
(६) वसंतराजशाकुने-प्रथमो वर्गः। द्विपदचतुष्पदषट्पदमष्टापदमनेकपदमपदम् ॥ यजंतुवृंदमस्मिन्वक्ष्यामस्तस्य शकुनानि ॥ ६॥ शुभाशुभं ज्ञानविनिर्णयाय हेतुर्नृणां यः शकुनः स उक्तः ॥ गतिस्वरालोकनभावचेष्टाः संकीर्तयामो द्विपदादिकानाम् ॥ ७ ॥ सापायमेतन्निरपायमेतत्प्रयोजनं भावि ममेति बुद्धया ॥ असंशयं शाकुनशास्त्रविज्ञो जहाति चोपक्रमते मनुष्यः॥ ८॥
॥ टीका ॥ चितम् ॥५॥ द्विपदेति ॥ अस्मॅिल्लोके यजंतुवृन्दं तस्य शकुनानि वयं वक्ष्याम इत्यन्वयः। तच्छब्दस्य यच्छब्दसापेक्षत्वादाह कीदृशं यत् जन्तुवृंदं द्विपदचतुष्पदषट्पदमष्टापदमनेकपदमपदं च तत्र द्विपदा मनुष्यादयः । चतुष्पदा हस्त्यादयः । षट्पदा भ्रमरादयः। अष्टपदाः शरभादयः । अनेकपदाः खजूरकादयः अपदाः सपदियः। प्राण्यंगत्वादेकवद्भावः । अत्र द्वौ पादावस्येति अकारांतेन पदशब्देन समासः। 'पदोंऽघिश्चरणक्रमः' इति कोशोक्तेः। एवं चतुष्पदादावपि समासो ज्ञेयः।अटापदमित्यत्र दीर्घत्वं तु अष्टनःसंज्ञायां चेति सुत्रेण ज्ञेयम् ॥ ६ ॥ शकुनस्य लक्षणं प्रतिपादयन्नाह ॥ शुभाशभइति ॥ शुभं श्रेयः तद्विरुद्धमशुभं तयोर्ज्ञानं तस्य निर्णयो निश्चयस्तस्य यो हेतुः कारणं शकुन उक्त प्रतिपादितो बुधैरिति शेषः । लक्षणमुक्त्वाभिधेयमाह । गतीति द्विपदादिकानामेताः संकीर्तयामः कथयामः वय.. मितिशेषः। एताःकाःगतिस्वरालोकनभावचेष्टाः। तत्र गतयो वामतारादिभेदेनानेकविधाः स्वराभाषाविशेषाः । आलोकनमीक्षणं भवोध्यवसायः चेष्टा शरीरव्यापारः॥७॥ शकुनस्य प्रयोजनं प्रतिपादयन्नाह ॥ सापाय इति ॥ शाकुनं शास्त्रं
॥भाषा ॥ द्विपदेति ॥ दोय हैं पाँव जिनके और चारहैं पाँव जिनके और छै हैं पाँव जिनके और आठहैं पॉवजिनके और बहुतहैं पाँव जिनके और नहीं हैं पाँव जिनके, ऐसो जो जंतुनको वृंद कहिये सम • ह ताके शकुन तिन्हें या शास्त्रमें हम कहैहैं॥६॥अब शकुनके लक्षण करेंहैं। शुभाशभइति ।। शुभ और अशुभ इनको ज्ञान ताको निर्णय कहा निश्चय ताको जो कारण सो विवेकिन करके शकुन कहेहैं और दोयहैं पाँव जिनके ऐसे मनुष्यहै आदिमें जिनके ऐसे मनुष्यादिकनकी गति स्वर आलोकन . देखनो भाव चेष्टा इने हम कहेहैं ॥ ७ ॥ शकुनके प्रयोजन ताय कहैहैं सापायमिति ॥ शाकुनशास्त्र ताय विशेषकरके जाने ऐसो मनुष्यहै सो मेरो ये कार्यकष्टस.
Aho! Shrutgyanam