________________
श्वचेष्टिते यात्राप्रकरणम्। (४७३ ) ब्रजेत्पुरस्ताद्यदि मूत्रयित्वा सदैव तत्सिध्यति कार्यमिष्टम् ॥ मिष्टान्नभोज्यं नवगोमये स्यान्मूत्रेण शुष्केपि च शुष्कभोज्यम् ॥ १७१ ॥ युग्मम् ॥ तुष्टः सुपुष्टः सुमना निरोग उत्साहयुक्तः परिपूर्णकायः ॥ सहेलखेलोऽभिमुखं प्रसपन्यक्षः सदैवाभिमतस्य सिद्धयै ॥ १७२ ॥ अन्नाज्यविष्ठामिषगोमयानि नवानि बिभ्रद्वदने सदैव ॥ वामोऽपसव्योऽप्यवलोक्यमानो मनोरथान्पूरयति ध्रुवं वा ॥ १७३ ॥
॥ टीका॥
दीनि प्रतीतानि एतेषामितरेतरद्वंदः। तेषु ॥ १७० ॥बजेदिति ॥ यदि एषुस्थलेघुश्वा कौलयकः मूत्रयित्वा पुरःअग्रेव्रजस्तदा सदैव कार्यमिष्टं सिद्ध्यति । नवगोमये मूत्रेण मिष्टान्नभोज्यं स्यात् । शुष्केपि च शुष्कभोज्यं स्यात् ॥ १७१ ॥ तुष्ट इति ।। एवंविधो यक्षः अभिमुखं प्रसर्पन सम्मुखमागच्छन्सदैव अभिमतस्य अभीष्टस्य सिद्धबैस्यात्।कीदृक् तुष्टःसंतुष्टिमान पुनः कीदृक् मुपुष्टः अकृशतनुः। पुनः कीदृशः मुमनाः पुनः कीदृशः अरोग रोगनिर्मुक्तः। पुनः कीदृक् उत्साहयुक्त उत्साहः आनंदविशेषः तेन युक्तः अन्वितः । पुनः कीदृक् परिपूर्णकायः परिपूर्णः कायो अवयवः यस्य स तथा । पुनः कीदृक् सहेलखेलः सहेलं सलीलं खेलः क्रीडा यस्य स तथा ॥१७२॥ अन्नेति ॥ नवानि अनाज्यविष्ठामिषगोमयानि अन्नं च आज्यं च आमिषं चगोमयं चेतीतरेतरद्वंद्वावदने विभ्रत्श्वा सदैव वामोऽपिअपसव्योऽपिच विलोक्य
॥भाषा।
मृत्तिका पुष्पफलादिक ।। १७० ॥ ब्रजेदिति ॥ जो श्वान ये कहे जे स्थल इनमें मूत्र करके मनुष्यके अगाडी गमन करे तो सदा वांछित कार्य सिद्ध करै और जो नवीन गोबरपै मूत्र कर तो मिष्टान्नभोजन करावे. सूखे गोबरपै मूत्र करै तो सूखो भोजन होय ॥ १७१ ।। तुष्ट इति ॥ जो संतुष्टिमान् होय, पुष्ट होय, प्रसन्न होय, रोगरहित, आनंदयुक्त होय, परिपूर्ण देह जाको होय, लीला सहित क्रीडा करतो होय, ऐसो श्वान सन्मुख आवे तो वांछित सिद्धि. होय ॥ १७२ ॥ अनेति ॥ नवीन अन्न, घृत, विष्ठा, गोबर इनै मुखमें धारण
Aho ! Shrutgyanam