SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ श्वचष्टते लाभप्रकरणम् । ( ४६५ ) शुभाशुभज्ञाननिमित्तमस्मिन्यथावदुक्तं मुनिसंमतेन ॥ प्रदश्र्श्यते श्वान विचेष्टितेन लाभस्य दिङ्मात्रमथैतदत्र ॥१४२॥ यक्षो हरिद्रामिषगैरिकाद्यैः पूर्णाननो वक्ति सुवर्णलाभम् ॥ दृष्टं पुनः पुष्पफलांकुरेषु चिरं ददानो निधिलाभकारी ॥ १४३ ॥ यः पल्लवैः क्रीडति वृक्षमूलं तथेक्षते यः स ददाति सौख्यम् ॥ रक्ताक्तमूर्द्धाभिमुखोऽभ्युपैति यो मंडलः सोऽवनिलाभहेतुः १४४ स्थित्वोन्नते श्वा यदि तु प्रदेशे पादेन कंडूयति दक्षिणेन ॥ शिरः प्रदेशं नियतं नरस्य तद्धेतुलाभं विदधाति सद्यः ॥ १४५ ॥ ॥ टीका ॥ शुभाशुभेति || अस्मिन्प्रकरणे शुभाशुभज्ञाननिमित्तं यथावद्यथा ज्ञातं तथा उक्तम् । अथ मुनिसंमतेन श्वानविचेष्टितेन लाभस्यैतज्ज्ञानमत्राऽस्मिन्प्रकरणे दिमात्रं प्रदर्श्यते ॥ १४२ ॥ यक्ष इति ॥ हरिद्रामिषगैरिकाद्यैः हरिद्रा रजनी आमिषं मांसं गैरिकं धातुविशेषः आदिशब्दादन्येऽपि धातवो ग्राह्याः । एतेषामितरेतरद्वंद्वः तैः कृत्वा पूर्णाननो यक्षः सुवर्णलाभं वक्ति । पुष्पफलांकुरेषु पुष्पं प्रसूनं फलम् आम्रादि अंकुराः प्ररोहाः । एतेषां द्वंदः तेषु चिरं दृष्टिं ददानः निधिलाभकारी स्यात ॥ १४३ ॥ य इति ॥ यः श्वा पल्लवैः नवीनपत्रैः क्रीडति तथा वृक्षमूलमीक्षते स सौख्यं ददाति । तथा यः मंडलः अभिमुखः अभ्युपैति कोहक रक्ताक्तमूर्द्धा रक्तेन धातुना रुधिरेण वा अक्तो लिप्तो मूर्द्धा मस्तकं यस्य स तथा सः अवनिलाभहेतुः स्यात् ॥ १४४ ॥ स्थित्वेति ॥ उन्नते प्रदेशे उच्चैः स्थाने स्थित्वा यदि वा दक्षि ॥ भाषा ॥ शुभाशुभेति ॥ या सात में प्रकरण में शुभाशुभ ज्ञान जैसो जान्यो तैसो कह्यो. आठ प्रकरणमें मुनिनकी संगति करके श्वानकी चेष्टासूं लाभको ज्ञान दिशा मात्र दिखावे है ॥ १४२ ॥ यक्ष इति ॥ हलदी, मांस, गेरूकूं आदिले औरभी धातु इनकरके पूर्ण जाको मुख ऐसो श्वान सुवर्णको लाभ करे. और पुष्प, फल, अंकुर इनमें बहुत देरतांई देखो करे तो निधिको लाभ करे ॥ १४३ ॥ य इति ॥ जो श्वान नवीन पल्लवन करके क्रीडा करतो होय और वृक्षको जडकूं देखतो होय वो सौख्य देवे. जो श्वान गेरूकूं आदिले धातू - करके अथवा रुधिर करके लाल लियो हुयो जाको मस्तक होय वा सन्मुख आवे तो पृथ्वीको लाभ करे ॥ १४४ ॥ स्थित्वेति ॥ ऊंचे स्थानमें स्थित होय करके जो व ३० Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy