________________
श्वचेष्टिते शुभाशुभप्रकरणम् । (४५५ ) दृष्टया प्रपश्यन्स पयो ब्रवीति कौलेयकः पांडुरवस्त्रलाभम्॥ विलोचने चेद्विनिमील्य शेते भूयोऽपि तस्मिन्छयने तथैव ॥ १०८॥ शुभावहः श्वा शयनस्थितः सञ्छिरोधरामुन्नमयन्नराणाम् ॥ धुनोति कर्णौ यदि तत्समस्तप्रयोजनानां कुरुते प्रणाशम् ॥१०९॥ गमागमादावपि सारमेयः शुभो भवेदीदृशचेष्टितो यः ॥ बमोऽधुना श्वानमनिष्टचेष्टं स्थितौ प्रवेशे गमने च दुष्टम् ॥ ११०॥ उडूलितोऽश्मादिकपूर्णवको भवेत्पुनश्चौरभयाय यक्षः ॥ यस्याग्रतः श्वास्थिलवं गृहीत्वा भषत्यसौ याति पुरं यमस्य ।। १११ ॥
॥टीका॥
ता सिद्धिः स्यात् ।। १०७ ॥ दृष्टयति ॥ कौलेयकः दृष्ट्वा पयः प्रपश्यंश्चैद्यदि लोचने विनिमील्य भूयोऽपि तस्मिञ्छयने तथैव शेते तदा स पांडुरवस्त्रलाभ ब्रवीति ॥ १०८ ॥ शुभेति ॥ शयने स्थितः सञ्छिरोधरी ग्रीवामुन्नमयन्नराणां शुभावहः स्यात् । यदि कर्णी धुनोति तदा समस्तप्रयोजनानां सकलकार्याणां प्रणा शं करते ॥ १०९ ॥ गमागमेति ॥ यः सारमेयः ईदृशचेष्टितः स सारमेय. गमागमादावपि गमनागमनादावपि शुभो भवेत् । गमश्च आगमश्च गमागमाविति द्वंद्वः । तावादौ यस्य तस्मिन् । अधुना सांप्रतं स्थितौ अवस्थितौ प्रवेशे नगरपा माद्यभ्यंतरगमनेगमने च परदेशप्रस्थाने च अनिष्टचेष्टं दुष्टं श्वानं वयं ब्रूमः॥११०॥ उद्धूलित इति ॥ उद्धूलितः रजोऽवगुंठितः अश्मादिनिः पूर्णवक्रः पुरो भवन्यक्षः चौरभयाय स्यात् । यस्य अग्रतः अग्रे श्वा अस्थिलवमस्थिखंडं गृहीत्वा भषति
॥ भाषा ॥ दृष्टयेति ॥ जो श्वान दृष्टिकरके जल वा दूधकू देखतो हुयो नेत्रनकू मीच करके फिर अपने सोयवेके स्थानमें तैसेंही जाय सोवे तो श्वेतवस्त्रको लाभ करै ॥ १०८ ॥ शमेति ॥ श्वान अपने सोयवेके स्थानमें स्थित होय, नाड ऊंची करे तो मनुष्यनकू शुभको करवेवालो होय. जो काननकू हलाय देवे तो सबले कार्यनको नाश करै ॥ १०९ ॥ गमागमेति ॥ जो श्वान पहले कही वोई चेष्टा करतो होय तो गमन आगमन इनकू आदिले सब कार्यनमें शुभ करे. अब स्थितिमें नगर प्रामादिकनके भीतर प्रवेश करतेमें और परदेशके गमनमें अनिष्ट जाकी चेष्टा ऐसे दुष्ट श्वान• हम कहेहैं ॥ ११ ॥ उद्धूलित इति ॥
Aho! Shrutgyanam