________________
( ४५० )
वसंतराजशाकुने - अष्टादशो वर्गः ।
विनिर्यतो मंदिरतोऽपसव्यं यक्षोऽपकारस्य यदि प्रयाति ॥ कुर्यात्तदा तस्य जयं नियुद्धे पराजयं वामगतिर्विधत्ते ॥ ॥ ९२ ॥ योद्धव्यमद्यैव मयेति यातुरयात्रिकं स्याच्छुभदं निमित्तम् ॥ दिनांतरे यस्तु नरो युयुत्सुः क्षेमंकरं यात्रिकमेव तस्य ॥ ९३ ॥ धुन्वञ्च्छिरः कर्णकलेवराणि जुगुप्सितं स्थानमुपेत्य मूत्रम् ॥ कुर्वन्समावेदितवामचेष्टो यात्रानिषेधं कपिलः करोति ॥ ९४ ॥
॥ टीका ॥
र्भवेत्॥९१॥विनिर्यत इति ॥ मंदिरतः विनिर्यतो गच्छतः पुंसः यदि यक्षः अपसव्यं दक्षिणं प्रयाति तदा तस्य नियुद्धे जयं कुर्यात् । वामा गतिः पराजयं विधत्ते । "नियुद्धं बाहुयुद्धेऽथ" इत्यमरः ॥ ९२ ॥ योद्धव्यमिति ॥ अद्यैव योद्धव्यं मया इति यातुः जनस्येति शेषः। अयात्रिकं निमित्तं यात्रानिषेधकं शकुनः शुभदः स्यात् । यस्तु नरः दिनांतरे युयुत्सुः येोडुमिच्छुः तस्य यात्रिकमेव क्षेमंकरं स्यात् । यात्रिकमेतदेवेत्यपि पाठः ॥ ९३ ॥ धुन्वन्निति । शिरः कर्णकलेवराणि शिरश्च कर्णौ च कलेवरं चेतिद्वंद्वः । धुन्वन्कंपयजुगुप्सितं स्थानमुपेत्य च मूत्रं कुर्वन्समावेदितषामचेष्टः समावेदिता निरूपिता वामा चेष्टा येन सः कपिलः यात्रानिषेधं करोति ॥ ९४ ॥
॥ भाषा ॥
श्वान ध्वजादिकनमें मूत्र करदे वा राजाको निःसंदेह जय और श्री होय ॥ ९१ ॥ विनिर्यत इति ॥ युद्ध करवेकूं स्थानसूं निकसै वा पुरूषकूं जो श्वान जेमनो आय जाय तो चाकूं भुजा युद्धमें जय करै. जो श्वान वांयो आय जाय तो पराजय करै ॥ ९२ ॥ योद्धव्यमिति ॥ मोकूं अभी युद्ध करनों है और वो गमन करे तो वा पुरुषकूं यात्रा के निषेध - करवेबारे जे शकुन हैं वाकूं शुभके देवेवारे हैं. वे शकुन जो मनुष्य दिनांतर में युद्धकी इच्छा करतो होय वाकूं यात्रा के जे शकुन हैं वे शुभके देवेवारे जानने ॥ ९३ ॥ धुन्वन्निति ॥ श्वान मस्तक कान देह इने कंपायमान करत निंदित स्थानमें आय करके सूत्र करे और बांई
Aho! Shrutgyanam